SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः १३८१ निदानस्थानम् । कश्चिद्धि रोगो रोगरय हेतुर्भत्वा प्रशाम्यति । न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च ॥ ज्वरादीनुपह्य रक्तपित्तादिकरा वाह्यहेतवो रक्तपित्तादिकं जनयन्तीति । ज्वरादौ वातादिवैषम्यवद्रक्तपित्तादौ ज्वरादिसन्तापो योनिः कथं हेवर्थकारिणो भवन्तीति चेत् ? न, ज्वरादयो हि यकिश्चिदुपहकहेतुलाभमात्रे रक्तपित्तादिकरा न भवेयुः, किनु द्धिमाप्नुवन्ति । अन्यथा प्रतिनियतरोगारम्भानुपपत्तिः स्यात् सर्वव्याध्यारम्भश्च भवितुमर्हति। इत्थञ्च यथा ययाधिजनकनिदानमासेवते ज्वरी तदा तेन निदानेनोपट हितबलः सन् ज्वरस्तद्ववाधिमेवारभते नान्यं रोगम् । न च तदा रक्तपित्तारम्भाय ज्वरारम्भदोषकोपो भवति। यो हि दोषो रक्तपित्तादिकं कुर्यादिति ज्वरादिः कार्यरूपो व्याधिने हेतुरूपो व्याधिरित्यतो रोगान्तरकारी। ननु रोगो ज्वरादिव्यांध्यन्तरहेतुर्भवतु तच्च व्याध्यन्तरं स्वकार्य करोतु हेतुरूपश्च ज्वरादिः किं रक्तपित्तरूपकार्यकरः, स्वकार्य. देहेन्द्रियमनस्तापकरादिने स्यादित्यत आह-उभयार्थेत्यादि। उभयमर्थ व्याध्यन्तरारम्भमर्थ स्वं स्वं काय्यश्चार्थ कुव्वेन्तीत्युभयार्थकराः रक्तपित्तादिव्याधिरूपं देहेन्द्रियमनस्तापादिरूपश्च ते ज्वरादयः कुवेन्तीत्युभयाकरा दृश्यन्ते केचिद व्याधयः। तथैव तेन प्रकारेण एकमर्थ व्याध्यन्तरारम्भमेवार्थ कुर्वन्ति इत्येकार्थकारिणो दृश्यन्ते। तत्र स्वस्व कार्यकरा व्याख्याताः स्वस्खाधिकारे ये त एव बोध्याः। प्रतिलोमतन्त्रयुक्त्या हेवर्थकारिणो द्वयार्थकारिणश्चोपदश्यन्ते-कश्चिद्धीत्यादि। हि यस्मात् कश्चित् रोगो न सन्चे एव रोगो रोगान्तरस्य हेतुभूला प्रशाम्यतीति हेतुमात्राथेकरवरूपैकार्थकरवप्रदशेनं, न प्रशाम्यतीत्यनेन रोगा एव रुजाकर्तृत्वेन स्वयमेव प्रधाना इति, पश्चाद्धत्वर्थ कारिण इति पत्राद्क्तपित्तावत्पादका भवन्तीत्यर्थः। प्रकारान्तरमाह-तथैवैकार्थकारिण इति, एकस्यैव हेतोरथं कुर्वन्ति एकार्थः कारिणः। एतदेव पक्षद्वयं प्रातिलोम्येन विवृणोति-कश्चिद्धीत्यादि। अत्र यो हेत्वर्थ व्याधिजननं कृत्वा प्रशाम्यति, स एकार्थकारी ; यस्तु हेत्वर्थ व्याध्यन्तरजननं कृत्वापि स्वयमप्यनु. वर्तते, स उभयार्थकारी ; यदा कासं समारभ्यापि स्वयमनुवर्तते, तदा प्रतिश्यायः स्वयञ्च रुजाकत्तू त्वेन रोगार्थकरः, कासजनकत्वेन च हेत्वर्थकरश्च भवति ; यदा तु कासं जनयित्वा स्वयं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy