________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८०
चरक-संहिता। अपस्मारनिदानम् प्लीहाभिवृद्धया जठरं जठराच्छोफ एव च। अशोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते ॥ प्रतिश्यायादथो कासः कासात् संजायते क्षयः । क्षयोरोगस्य हेतुत्वे शोषश्चाप्युपजायते ॥ ते पूर्व केवला रोगाः पश्चाद्धत्वर्थकारिणः।
उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः ॥ कार्यकारणभावः। ताभ्यां रक्तपित्ताज्ज्वराच शोषो राजयक्ष्मा। जठरमिति प्लीहाख्यजठरमन्यज्जठरं वा। शोफः श्वयथः । अझेभ्यो जठरम् अशोभ्यश्च गुल्मः । क्षय इति ओजःप्रभृतीनां क्षयः। क्षयोरोगस्य क्षयो रसक्षयः शुक्रक्षयश्च, उरोग उरःक्षतं तयोः समाहारस्तस्य, तथा शोषो राजयक्ष्मा। ननु रोगो रोगान्तरस्य यन्निदानं भवति तत् किमुत्पन्नमात्रं किमुतोत्तरकालं, तदा कि रोगखेन गृह्यते किं हेवर्थकरत्वेन इति ? आह-ते पूर्वमित्यादि। ते इति ज्वरादयः पूर्व प्रज्ञापराधादुरपटहककारणलाभात् पूर्व केवलारोगा रोगाख्यमात्राणि पश्चाद्रक्तपित्तादिजनकरूपोपटकहेतुतो लब्धबला हेवर्थकारिणः तत्तदरक्तपित्तादिस्वस्ववाह्यनिदानाद् विषम पित्तादिवत्तल्यरक्तपित्तादिरूप कार्यकारिणः स्युने तु तत्तद्रक्तपित्तादिजनकवाह्य हेलर्थकारिणः। असात्म्येन्द्रियार्थसंयोगादयो हि वाह्य हेतवो ज्वरादिव्याधिजनकवातादिवैषम्यजननम् अन्तरेण न ज्वरादीनुत्पादयितु शक्नुवन्ति ।
ननु ज्वरादिकरवस्वभाववत्तया तु दोषान् कोपयिदैव ज्वरादीन् जनयन्ति यथा वाह्यहेतवः, तथात्रापि रक्तपित्तादिजनकवस्वभाववत्तया मूलभूतासात्म्येन्द्रियार्थादि कारणत्रयमेव कारणं भवतीति ; न च चतुर्थकारणापत्तिरिति प्रसङ्गो वाच्यः ; ज्वरकारणान्येव हि उष्णादीन्यतिमात्राणि ज्वरमभिनिवर्त्य रक्तपित्तमपि कारणान्सरवर्द्धितशक्तीनि जनयन्तीत्यायनुसरणीयम् । गुल्मश्चाप्युपजायते इति अर्शोभ्य एव । कासात् सञ्जायते क्षय इति कासादातुक्षयो जायते, स च धातुक्षयो रोगः शोषाभिधानस्य हेतुर पलभ्यत इति योजना।
ननु यत्र रोगस्य कारणं रोगो भवति, तत्र किं कारणभूतरोगोऽप्रधानमवेदमाशङ्कयाह-ते पूर्वमित्यादि। ते ज्वरादयो रक्तपित्तावत्पादात् प्राक् पूर्व केवलाः सन्तः
+ क्षयो रोगस्य हेतुत्वे शोषस्यापुउपजायते इति द्वितीयः पाठः ।
For Private and Personal Use Only