________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
निदानस्थानम् ।
१३७६ निदानार्थकरो रोगो रोगस्याप्युपलभ्यते। तद् यथा ज्वरसन्तापाद रक्तपित्तमुदीर्यते। रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते ॥ गङ्गाधरः-ननु असात्म्येन्द्रियार्थसंयोगप्रशापराधपरिणामा इति त्रिविधा रोगहेतब उक्ता न चोक्ता दृश्यन्ते रोगा ये रोगहेतव इत्यसमग्रवचनमित्याशङ्कायामाह-निदानार्थत्यादि । निदानस्यार्थः प्रयोजनं रोगाभिनिन् तिस्तं करोतीति निदानार्थकरो रोगोऽपि रोगकर इत्यकरणादिदं शापितं प्रज्ञापराधादिना लब्धबलः सन् रोगोऽपि रोगान्तरस्याप्यभिनिवृत्तिकर उपलभ्यते न तु सबों रोगः सर्वरोगकर इति। अत्र रोगोऽसात्म्येन्द्रियार्थयोगादिनिदानसम्भूतवातादिवैषम्यनिमित्तो वाताद्यात्मको विशिष्टो ज्वरादिन तु धातुवैषम्यमात्रम्, तस्य सर्वरोगप्रकृतिलेनोक्तखात् । यथा प्रशापराधादिना वातादय. ज्वरादुरक्तनिदानेन वा सश्चिताः प्रकुपिताश्च ज्वरादिरूपेण परिणम्यन्ते तथा ज्वरादिरूपेणोत्पन्नाः पुनः प्रज्ञापराधादिरूपैरेव रक्तपित्तादाक्तनिदानलब्धबलाः सव्वांशेन कियदंशेन वा रक्तपित्तादिनानारूपेण परिणम्यन्ते इति दोषवद्विशिष्टरोगा अपि रोगान्तरहेतवो न दोषातिरिक्ता हेतवो वलयस्वर्णकृतकुण्डलंवत् ज्वरादयो हि यावदसात्म्येन्द्रियार्थादिनिदानलब्धबला न भवन्ति तावन्न रक्तपित्तादिकरा भवन्ति इति।
एके तु प्रशापराधादिकं यत् त्रिविधनिदानमुक्तं तत् सर्वव्याधिविषयम्, इदन्तु प्रतिनियतरोगविषयम्। सर्व हि रोगा रोगान्न जायन्ते किन्तु कश्चित् रोगः कुतश्चि रोगाद्भवतीति रोगाख्यं चतुर्थनिदानमिदमूचुः । तन्न मनोरमम् ; उक्तयुक्तया त्रिविधनिदानादतिरिक्तनिदानाभावात् नवद्रव्यवत्। नवैव द्रव्याणि, तत्र पाञ्चभौतिकानि ताम्रसीसादीनि । तन्मयानि च कांस्यपित्तलादीनि न तु नवातिरिक्तानि। अस्योदाहरणं दर्शयति-तद् यथेत्यादि। रक्तपित्ताज्ज्वरश्चेति ज्वररक्तपित्तयोः परस्पर
चक्रपाणिः-सम्प्रति निदानप्रकरणाद् रोगाणामपि केषाश्चिद् व्याधिं प्रति कारणत्वं यत् सम्भवति, तदनुक्तमाह-निदानार्थत्यादि । निदानस्यार्थः प्रयोजनं व्याधिजननम्, तत् करोतीति निदानार्थकरो व्याधिजनक इति भावः ; निदानरूप इति वक्तव्ये यन्निदानाकर इति ब्रुवते तेन, न्याधिना प्राध्यन्तरे क्रियमाणेऽपि मूलभूतम्याधिजनक एव हेतुः, व्याधिजन्येऽपि ग्याधी मूलव्याधिजननारम्भकापरं निदानमिति दर्शयति ; तेन रोगजन्येऽपि रोगे
For Private and Personal Use Only