________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७०
चरक-संहिता। अपस्मारनिदानम् पत्तिरभूत्। हविःप्राशात् प्रमेहकुष्ठानाम्, भयोत्त्रासशोकैः उन्मादानाम्, नानाविधभूताशुचिसंस्पर्शादपस्माराणाम् । ज्वरस्तु खलु महेश्वरललाटप्रभवः, तत्सन्तापात् तु रक्तपित्तम्, अतिव्यवायान्नक्षत्रराजस्य राजयक्ष्मेति ॥ ११ ॥
सत्र श्लोकाः। अपस्मरति वातेन पित्तेन च कफेन च। चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः ॥ साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः। तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि ॥ यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः। तदा साधारणं कर्म प्रवदन्ति भिषगवराः ॥ सर्वरोगविशेषज्ञः सवैषिधविशेषवित् । भिषक सामयान् हन्ति न च मोहं समृच्छति।
इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम् ॥ १२ ॥ उपवासः प्लवनं जले उत्प्लवनम् । आद्यपदेन पतनादिदेहविक्षोभणदेंहक्षोभकरैः । पुरा कृतयुगे। तस्मिन्नेव दक्षाध्वरध्वंसेऽतिशयह विपाशात् ॥११॥
गङ्गाधरः-अस्य चोपसंहारार्थमाह- अपस्मरतीत्यादि। तथाविधः सान्निपातिकोऽपस्मारः। साधारण मन्त्रादितीक्ष्णसंशोधनसंशमनरूपम् । इत्येतदित्यादिना प्रतिज्ञाताष्टव्याधिनिदानादिव्याखानोपसंहारः ॥१२॥ एवोक्तति भावः । पुरा इत्यादुत्पत्ती ; ललाटप्रभव इति क्रोधाग्निप्रभव इत्यर्थः। अन्वयो. ऽनुबन्धः ; साधारणमिति दोपप्रत्यगीक रसायनादि, देवादिप्रत्यनीकं बलिमङ्ग लादि। निदामस्थानोक्तसर्वरोगज्ञानफलगाह-सर्वेत्यादि। न च मोहं निगच्छतीति निदानस्थानाद्यनुक्तेऽपि प्रमेये सूक्ष्मेऽपि बहुद्रष्टव्यत्वेन न मोहं गच्छति, किन्तु तदप्यूह्यत इत्यर्थः। अखिलेनेति यावनिदानस्थानतया व्याध्यष्टकं प्रतिज्ञातम्, तावदखिलेनोक्तम् । तेन विकिसास्थानवक्तव्यनिदानाभिधामात् न म्यूनत्वम् ; यच्च ज्वरादिनिदानमपि पुनर्वक्तव्यम्, तदस्यैव प्रपत्र इति भावः ॥ ११॥ १२॥
For Private and Personal Use Only