________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
निदानस्थानम् । हितान्यपस्मारिभ्यस्तीक्ष्णानि चैव संशोधनान्युपशम. नानि यथास्वं मन्त्रादीनि चागन्तुसंयोगे ॥१०॥
तस्मिन् हि दक्षाध्वरध्वंसे देहिनां नानादिन विद्रवताम् अभिद्रवणतरणधावनलङ्घनप्रवनादादेहविक्षोभणैः पुरा गुल्मोत्
गमनादकृतेऽपि च। आगमाचाप्यपस्मारं वदन्त्यन्ये न दोषजम् । क्रमोपयोगादोषाणां क्षणिकखात् तथैव च। आगमाद् वैश्वरूपाच स तु निवाते बुधैः । देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित् । शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छयाः। स्थायिनः केचिदन्येन कालेनापि प्रवद्धिताः। दशेयन्ति विकारांस्तु विश्वरूपान् निसर्गतः। अपस्मारो महाव्याधिस्तस्माद दोषज एव तु। इति ॥९॥ ___ गङ्गाधरः-लिङ्गान्युक्त्वा चिकित्सासूत्राण्याह-हितानीत्यादि। तीक्ष्णानि तीक्ष्णवीय्यद्रव्यकृतानि संशोधनानि वमनादीनि उपशमनानि च तीक्ष्णानि यथास्वं यथादोषं तीक्ष्णानि सन्ति संशोधनानि संशमनानि च यथादोषं तीक्ष्णान्येवेत्यर्थः। मन्त्रादीनि चेति आदिना बलिमङ्गलादीनि चकारात् तीक्ष्णसंशोधनोपशमनानि च । आगन्तुसंयोगे देवादिग्रहानुबन्धे ॥१०॥
गङ्गाधरः-अथ गुल्मादीनाश्चास्य च ज्वररक्तपित्तवत् प्रागुत्पत्तिमाहतस्मिन् हीत्यादि। तस्मिन् शास्त्र प्रसिद्धत्वेन श्रुते दक्षाध्वरध्वंसे । ज्वराखावाणभयाद विद्रवतां नानाविधविध्वस्तखादिविद्रवशालिनां दशसु दिक्षु अभिद्रवणं पलायनं तरणं नद्यादिषु सन्तरणं धावनमध्वादिना द्रुतगमनं लङ्घनम् स्तोकम् । दोपलिङ्गविलक्षणलिङ्गागन्तुरनुबन्धो भवतीत्यभिप्रायः ; एतेन स्वातन्त्रवणागन्त्वपस्मारसम्भवो न भवतीति दर्शयति ; यदि हि स्वतन्त्र एवागन्तुः स्यात्, तदा न स्तोकमागन्तुलिङ्ग स्यात् । 'सर्वमेवं हितम्' इत्यादिना चिकित्सासूत्रमाह ; उपशमनानि च हितानीति योजना ॥९-१०॥
चक्रपाणिः-सम्प्रत्युक्तानां गदानामुत्पत्तिमाह-तस्मिन्नित्यादि। यद्यपि च ज्वर एव तत्र प्रथम उत्पन्नस्तथाप्यसौ पृथगेव बहुक्रोधरूप उत्पन्न इति कृत्वा पश्चादच्यते ; गुल्मादयस्तु यज्ञध्वंसानन्तरकालभूता एकसामग्रीजातत्वेन प्रथममुच्यन्ते ; ज्वरस्य तु सर्वप्रथमोत्पत्ति+रनिदान
___ * अत्र सर्वमेव हितमित्यधिकः पाठः क्वचित् ।
१७३
For Private and Personal Use Only