________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
W MHP H
१३७६
चरक-संहिता। [ अपस्मारनिदानम् उपदेष्यते। तस्य विशेषविज्ञानं यथोक्तैर्लिङ्गलिङ्गाधिक्यं . दोषलिङ्गाननुरूपं किञ्चित् ॥ ६ ॥ उन्मादेषु वक्ष्यते इति । न च केवलं हेतुसामान्यात् दोषदृष्यसामान्याच अयम् अतिदेश आगन्बनुबन्धादपि च। नन्वागन्खनुवन्धमपस्मारे कुतो जानीम इत्यत आह–स इत्यादि । विज्ञान रिति शेषः । नन्वागन्खनुबन्धस्य किं विज्ञानम इत्यत आह-तस्येत्यादि। किञ्चिल्लिङ्गमिति शेषः। चतुर्णामपस्माराणां सामान्यलक्षणं चिकित्सिते वक्ष्यते। सुश्रुतेऽपि सनिदानं सामान्यविशेषलिङ्गमुक्तम् । मिथ्यादियोगेन्द्रियार्थ-कम्मेणामतिसेवनात् । विरुद्धमलिनाहार-विहारः कुपितैर्मलः। वेगनिग्रहशीलानामहिताशुचिभोजिनाम्। रजस्तमोऽभिभूतानां गच्छताश्च रजस्वलाम् । तथा कामभयोद्वेग-क्रोधशोकादिभिः भृशम् । चेतस्यभिहते पुंसामपस्मारोऽभिजायते। संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः। रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा। विक्षिपन् हस्तपादौ च विजिह्मभ्र विलोचनः। दन्तान् खादन् वमन् फेनं विटताक्षः पतेत् क्षितौ। अल्पकालान्तरश्चापि पुनः संज्ञां लभेत सः। सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुबिधः। वातपित्तकफैनृणां चतुर्थः सन्निपाततः। हत्कम्पः शून्यता स्वेदो ध्यानं मूर्छा प्रमूढ़ता। निद्रानाशश्च तस्मिंस्तु भविष्यति भवत्यथ। वेपमानो दशेद दन्तान् श्वसन् फेनं वमन्नपि। यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति । ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः॥ तृट्तापस्वेदमूर्ध्वात्तौ धुन्वन्नानि विह्वलः। यो ब्रूयाद विकृतं सत्त्वं पीतं मामनुधावति। ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते ॥ शीतहल्लासनिद्रात्तैः पतन् भूमौ वमन् कफम्। यो ब्रूयात् विकृतं सत्त्वं शुक्लं मामनुधावति । ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः।। हृदि तोदस्तृडत्क्लेशस्त्रियप्येतेषु सङ्ख्यया। प्रलापः कूजनं क्लेशः प्रत्येकन्तु भवेदिह। सव्येलिङ्गसमावायः सव्वेदोषप्रकोपजे ॥ अनिमित्तागमाद् व्याधेः भूतसम्बन्धो भवति, न च स्वतन्त्रापस्मारो भौतिको भवतीति दर्शयति। उत्तरकालमिति चिकित्सिते। यद्यपि चापस्मारचिकित्सितेऽपि प्रपञ्चो न वक्तव्यः, तथापि तत्रोन्मादविध्यतिदेशात् उन्मादोक्तविस्तार एवेति कृत्वा इहोक्तम्,-'तमुत्तरकालमुपदेक्ष्यामः' इति ; उक्तं हि"यस्यानुबन्धनस्वागन्तु दोपलिङ्गाधिकाकृतिम्। पश्येत् तस्य भिषक् कुर्यात् आगन्तून्माद. भेषजम् ॥ इति । यथोक्तलिङ्गैरिति पञ्चमीस्थाने तृतीया ; तेन यथोक्तलिङ्गेभ्यो लिङ्गाधियं लिङ्गातिरिक्तत्वम् ; तच्चादोषलिङ्गानुरूपं दोपलिङ्गासदृशमित्यर्थः ; किञ्चिदिति न सर्वम्, किन्तु
For Private and Personal Use Only