________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः ] निदानस्थानम् ।
१३७५ शुक्लगुरुस्निग्धरूपसन्दर्शिनं * श्लेष्मलानुपशयं विपरीतोपशयञ्च श्लेष्मणापस्मारितं विद्यात् ॥ ७॥
समवेतसवलिङ्गमपस्मार सानिपातिकं विद्यात्, तम् असाध्यम् आचक्षते । इति चत्वारोऽपस्मारा व्याख्याताः ॥८॥
तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, स उत्तरकालम् गङ्गाधरः-चिरादित्यादि। पतन्तं भुवि पतन्तम् ॥ ७॥
गङ्गाधरः-अथ सन्निपातजापस्मारस्य प्रकृतिसमसमवायारब्धस्य द्वन्द्वजानाञ्च प्रकृतिसमसमवेतानां दोषभेदविकल्पैलाभेऽपि यत् सन्निपातजस्य गणनं कृतं तेन विकृतिविषमसमवायारब्धत्वं सन्निपातजस्य लभ्यते तन्निरासाय पृथग्जलिङ्गातिदेशेन सान्निपातिकापस्मारमाह-समवेतसव्वंलिङ्गमित्यादि । वातादिजानां सर्वेषां त्रयाणामपस्माराणां लिङ्गानि समवेतानि मिलितानि यत्र तं तथा। एतेन प्रकृतिसमसमवेतद्वन्द्वजानां विकृत्यारब्धसन्निपातस्य च निरासः । तमसाध्यं प्रभावात् । केचित् तु व्याधिप्रभावात् द्वन्द्वजा न भवन्ति सन्निपातजस्तु प्रकृतिसमसमवायाद भवति तस्यासाध्यवाद गणनमाचार्येण क्रियते यत्र साध्यत्वं तत्र न गणनमित्यतः पृथग्वातादिलिङ्गानि समवेतानि मिलितानि यत्र तं तथेत्येवं द्वन्द्वजानामनुक्तौ सन्निपातस्य उक्तौ व्याचक्षते ॥८॥
गङ्गाधरः-नन्वपस्मारोऽप्युन्मादवदशुचिभोजनविषमतन्त्रप्रयोगादितो भवति देवादयश्च भूता दोषजमुन्मादमनुबध्नन्ति न कथमस्मारमित्यत आहतेषामित्यादि। तेषां चतुणों दोषजानामपस्माराणामनुबन्ध आगन्तु. देवादिग्रहो भवत्येव कदाचित् न तु सर्वदा न वागन्तून्मादवदेवादिभ्योऽपस्मारः पृथक् पञ्चमो भवति। अत एव सुश्रुते भूतविद्याख्येऽङ्गेऽपस्मारः पठितश्चिकित्सा चोन्मादीयातिदिष्टा। तस्य कार्यो विधिः सर्वो य भैरवन्तु अहिंसकमपि भयजनकं श्मशानादि ; आदीप्तं ज्वलितम्। चिरादपस्मरन्तमिति भूयसा कालेनापस्मारवेगवन्तम् ॥ ६-८॥
चक्रपाणिः-भवत्येवेत्यत्र ‘एव'कारोऽत्यन्तायोगव्यवच्छेदः ; यथा-नीलं सरोजं भवत्येव, न च न भवति । 'कदाचित्पदन्त्वत्यन्तायोगव्यवच्छेदार्थतामेव द्योतयति ; एतेन सर्वापस्मारे
* शुक्लगुरुरूपदर्शिनमिति वा पाठः ।
For Private and Personal Use Only