________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७४
चरक-संहिता। अपस्मारनिदानम् अति आखात-*-ग्रीवमाविद्धशिरस्कं विषमविनताङ्गलिमनवस्थितसक्थिपाणिपादम् अरुणपरुषश्यावनखनयनवदनत्वचम् अनवस्थितचपलपरुषरूपदर्शिनं वातलानुपशयं विपरीतोपशयं वातेनापस्मारितं विद्यात् ॥५॥
अभीक्षणमपस्मरन्तं क्षणे क्षणे संज्ञां प्रतिलभमानमवकूजन्तम् आस्फालयन्तं भूमिम्, हरितहारिद्रताम्रनखनयनवदनत्वचं रुधिरोपितोप्रभैरवप्रदीप्तरुषितरूपदर्शिनं पित्तलानुपशयं विपरीतोपशयञ्च पित्तेनापस्मारितं विद्यात् ॥६॥
चिरादपस्मरन्तं चिराच संज्ञां प्रतिलभमानं पतन्तम् अनतिविकृतचेष्टं लालामुद्वमन्तं शुक्लनखनयनवदनत्वचं विलपन्तमप्रीत्या रुदन्तम्. अति चाखातग्रीवमिति ग्रावाभङ्गण खननमिव ग्रीवायाः, आविद्धशिरस्कं सूच्यादिभिरिव, विषमविनता वैपम्ये नम्रा अङ्गलयो यस्य तं तथा। अनवस्थितमवस्थातुमशक्यं सक्थिपाणिपादं यस्य तं तथा। अनवस्थितं चपलं विदुरदिव परुषञ्च रूपं मूर्तिर्यस्य सन्दर्शिनम् अपस्मारकाले वातलैर्वातवर्द्धनैर्भावैरनुपशयो यस्य तं तथा। विपरीतं वातहरणैरुपशयो यस्य तं तथा। अपस्मारितमित्यपस्मारेः कर्मणि क्तः॥५॥
गङ्गाधरः-अभीक्ष्णमित्यादि। रुधिरोक्षितं शोणितोपसिक्तगात्रञ्चोग्रश्च क्रुद्धश्च भैरवं भयजनकश्च दीप्तं ज्वलितं रुपितं गूढक्रुद्धञ्च द्रष्टु शीलं यस्य तं तथा ॥६॥ प्रतिलभमानमिति वातापस्मारे शीघ्र प्रबोधो भवतीति दर्शयति ; आध्मातग्रीवमिति पूरितस्तब्धग्रीवम् ; आविद्रशिरस्कमिति वक्रशिरस्कम् ; अनवस्थितचपलरूपदर्शनञ्च पतनकाले ज्ञेयम् ; पतितस्तु न बुध्यत एव ; एवमन्यत्रापि रूपदर्शनं ज्ञेयम् ; सुश्रु तेऽपि पतनकाल एवं रूपदर्शनमुक्तम्, यथा-"यो बयात् विकृतं सत्वं कृष्णं मामनुधावति। ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः" ॥ इत्यादि ॥५॥
चक्रपाणिः-पित्तापस्मारे यद्यपि विशेषलक्षणे क्षणेन संज्ञा प्रतिलभमानमित्युक्तम्, तथापि वातापेक्षया कालप्रकर्षोऽत्र ज्ञेयः, पित्तादपि हि वायुः शीघ्रकारी भवति । उग्रं हिंसकमिव ;
• आखातेत्यत्र आध्मातेति चक्रः पठति ।
For Private and Personal Use Only