________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
निदानस्थानम् ।
१३७३ तस्येमानि पूर्वरूपाणि भवन्ति । तद् यथा-भ्र व्युदासः सततमक्षणोकृतमशब्दश्रवणं लालासिंघाणकस्रवणम् , अनन्नाभिलषणमरोचकाविपाको हृदयग्रहः कुक्षेराटोपो दौर्बल्यमङ्गमर्दो मोहस्तमसो दर्शनम् मूर्छा भ्रमश्चाभीक्षणं स्वप्ने च मदनर्त्तनव्यधनव्यथनवेपनपतनादीनि, इत्यपस्मारपूर्वरूपाणि भवन्ति ॥४॥ ___ ततोऽनन्तरमपस्माराभिनिवृत्तिरेव । तत्रेदमपस्मारविशेषविज्ञानं भवति। तद यथा-अभीक्षणमपस्मरन्तं क्षणे क्षणे संज्ञा प्रतिलभमानमुत्पिण्डिताक्षमसाम्ना विलपन्तमुद्वमन्तं फेनम् भवति इति चेन्न, भक्तिशीलचेष्टाचारविभ्रमस्य वीभत्सचेष्टान्तर्गतत्वेन लाभात् ॥३॥
गङ्गाधरः-सम्प्राप्तिमुक्त्वा पूर्वरूपाण्याह-तस्येमानीत्यादि । तद् यथेति । भ्र व्युदासः भ्र भङ्गः। अक्ष्णोः सततं वैकृतं कुटिलता। अशब्दश्रवणं शब्दाभावपि शब्दस्यैव श्रवणम् । कुक्षेराटोपो गुड़गुड़ाशब्दस्तनतनिश्च। मोहो मन. इन्द्रियमोहः। तमोदर्शनमकस्मादन्धकारदर्शनं न च पतनम् । मूर्छा इन्द्रियमोहः। भ्रमश्चक्रस्थितस्येव गात्रभ्रमणं गृहादिभ्रमणञ्च। मदो मत्तता पूगकोद्रवादिभक्षणेन यथा स्यात् तथा । स्वप्ने च मदादीनि ॥४॥
गङ्गाधरः-ततोऽनन्तरमिति । ततोऽनन्तरं पूर्वरूपानन्तरम्। तत्रापस्माराभिनित्तौ सत्याम्। इदं किमत आह-तद् यथेत्यादि । अभीक्ष्णं वारंवारमपस्मरन्तं स्मृत्यादिसंप्लवात् भूमिपतनपूर्वकबीभत्सचेष्टावस्थिकतमःप्रवेशवन्तम, संज्ञां चैतन्यं क्षणे क्षणे प्रतिलभमानम् अर्थात् क्षणे क्षणे च संशाहीनम्, उत्पिण्डिताक्षम् ऊर्धीभूतपिण्डाकाराक्षम्, असाम्ना
तमःप्रवेशमिति कादाचित्कं तमःप्रवेशम् ; तमःप्रवेश इति तमःप्रवेशोऽज्ञानसाधात् ; अपस्मारवेगवान् हि तमःप्रवेश इव न किञ्चिद् वुध्यते। अशब्दश्रवणमिति शब्दविशेषी वातजन्यः श्रूयत इत्यर्थः ॥ ३॥४॥
चक्रपाणिः-तत्रेदमित्यादि । विशेषविज्ञानं वाताय पस्मारलिङ्गमित्यर्थः ; क्षणेन संज्ञा
For Private and Personal Use Only