________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७२
चरक-संहिता। अपस्मारनिदानम् तथेन्द्रियायतनानि । तत्र तत्र चावस्थिताः सन्तो यदा हृदयमिन्द्रियायतनानि चरिताः कामक्रोधलोभमोहहषभयशोकचिन्तोद्व गादिभिः भूयः सहसाभिपूरयन्ति तदा जन्तुः अपस्मरति ॥ २॥ ___ अपस्मारं पुनः स्मृतिबुद्धिसत्त्वसंप्लवाद बीभत्सचेष्टमावस्थिकं तमप्रवेशमाचक्षते ॥३॥ स्थानापेक्षयातिशयेन श्रेष्ठतमाधिष्ठाननात् । तथेन्द्रियायतनानि श्रोत्रादीनां स्थानानि चोपगृह्य उपरि तिष्ठन्ते, तत्र तत्र मनःस्थाने हृदये श्रोत्रादिस्थाने च कर्णादौ अवस्थिताः सन्तो वातादयः भूयः पुनरपि कामादिभिरीरिता यदा हृदयम् इन्द्रियायतनानि च कर्णादीनि सहसा पूरयन्ति, तदा प्राणी अपस्मरति । रजस्तमोभ्यामुपहतसत्त्वमात्र पुरुषो नापस्मरति पुनर्वातादिदूषितत्वेऽपस्मरतीति मानसोऽपि शारीरः ॥२॥ - नन्वपस्मरणं किं तावदित्यत आह-अपस्मारमित्यादि। स्मृतिबुद्धिसत्त्वसंप्लवात् दोषजन्यस्मृतिबुद्धिमनःसमावृतिजन्यां, बीभत्सा नेत्रमुखादिवैकृतफेनोद्वमनादिरूपा चेष्टा यत्र तं, तथा आवस्थिकं न साब्वेकालिक तमःप्रवेशमन्धकारे मनोऽहमिति स्वस्थस्यामावस्यारात्रमादिषु यस्तमःप्रवेशो जातान्धस्य वा यस्तस्य वारणायावस्थिकपदं, मूरितामन्धकारप्रवेशस्य वारणाय बीभत्सचेष्टपदं, कस्यचिनिद्रितस्य निद्रावस्थायां बीभत्सचेष्टा हि दृश्यते तस्य निद्रावस्थिकतम प्रवेशवारणाय स्मृत्यादिसंप्लवपदम्। अत्र सत्वं मनः स्मृत्यादित्रयप्लवनं स्वरूपलक्षणम्। तमःप्रवेशपदेन उन्मादस्य व्यवच्छेदः उन्मादचोक्तः मनोबुद्धग्रादिविभ्रमः। सुश्रुतेऽपि स्मृतिभूतार्थ विज्ञानमपस्ततपरिवज्जेने। अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ॥ इति। ननून्मादे भक्तिशीलाचारचेष्टाविभ्रमोऽप्यधिकोऽस्ति तेल तात्तिः देहानाम्' इत्युक्तम् ; श्रेष्टतमायतनमिति, अन्योऽपि शरीरदेशोऽन्तरात्मनः स्थानम्, हृदयन्तु श्रेष्ठतमम्, तत्रैव चेतना ; विशेषेण पूरयन्ति यदा, तदा अपस्मरति अपस्मारवेगयुक्तो भवतीति वाक्यार्थः ॥ १-२॥
चक्रपाणिः-अपस्मारप्रत्यात्मलक्षणमाह-अपस्मारं पुनरित्यादि। संप्लवादिति विकृतिगमनात् ; बीभासा फेनवा नाङ्गभङ्गादिरूपा चेष्टा यस्मिन्, तद बीभत्सचेष्टम ; भावस्थि
For Private and Personal Use Only