________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथातोऽपस्मारनिदानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः॥१॥ इह खलु चत्वारोऽपस्मारा भवन्ति वातपित्तकफसन्निपातनिमित्ताः। त एवंविधानां प्राणभृतां क्षिप्रमभिनिवर्तन्ते; तद् यथा-रजस्तमोभ्यामुपहतचेतसाम्, उद्भ्रान्तविषमबहुदोषाणां, समलविकृतोपहितान्यशुचीन्यभ्यवहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां, तन्त्रप्रयोगमपि च विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षीणदेहानां वा दोषाः प्रकुपिता रजस्तमोभ्यामुपहतचेतसाम् अन्तरात्मनः श्रेष्ठतममायतनं हृदयमुपसंगृह्योपरि तिष्ठन्ते,
गङ्गाधरः-अथ मानसविकारत्वसाधादेकविधकारणखाचोन्मादानन्तरम् अपस्मारनिदानमाह-अथात इत्यादि ॥१॥
गङ्गाधरः-इहेत्यादि। चखार इति संख्यानिर्देशः । तद्विवरणं वातेत्यादि । त इति चखारोऽपस्माराः। किंविधानामित्यत आह-तद् यथेति। रजस्तमोभ्यामुपहतं क्षीणीभूतं सत्त्वं यत्र तादृशं चेतो येषां तेषां तथा । रजश्च तमश्च द्वौ मानसदोषो। उदभ्रान्ता उद्धता हृदयादृर्द्ध भ्रमणशीला विषमा वृद्धा बहवोऽधिकमानेन सञ्चिता दोषाः शारीरदोषा वातादयः येषां तेषां तथा। समलेत्यादि पूर्ववद् व्याख्येयम् ; दोपा वातादयः ; रजस्तमोभ्यामुपहतं चेतः क्षीणसत्त्वं मनो येषां तेषां तथा। अन्तरात्मनः आभ्यन्तरेन्द्रियस्य मनसः श्रेष्ठतममन्य
चक्रपाणिः-उन्मादानन्तरं प्रागुत्पत्तौ अपस्मारोत्पादादपस्मारनिदानमुच्यते। चरवार इति वचनमागन्तुसम्बन्धेऽप्यपस्माराणां चतुष्टयत्वप्रतिपादनार्थम् ; अपस्मारो हि नोन्मादवत् स्वतन्त्रेणागन्तुना क्रियते। उद्घान्तविषमबहुदोषाणामित्यत्रोद्धान्तत्वेनोन्मादित्वम्, विषमत्वेन कदाचिदपस्मारवेगकर्तृत्वं दश्यते ; समलेत्यादि उन्मादव्याख्यानतुल्यम् ; भत्युपक्षीणदेहानां वेति अत्युपक्षीणदेहस्वादित्यर्थः ; उन्मादनिदानेऽपि समलविकृतादिनन्थे 'भत्युपक्षीण
For Private and Personal Use Only