________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ]
निदानस्थानम्।
१३६६ आत्मानमेव मन्येत कर्तारं सुखदुःखयोः। तस्माच्छे यस्करं मागं प्रतिपद्यत नोत्वसेत् ॥ देवादीनामुपचितिर्हितानाञ्चोपसेवनम्। ते च तेभ्यो विरोधाश्च सर्वमायत्तमात्मनि ॥१८॥
सम्भूते सति स्वकृतकर्मणा कृतस्य तस्य क्लेशस्य परेण कृत्यता कर्त्तव्यता यतो नास्ति, तस्मात् तन्निमित्तो नासो क्लेशः। नन्वस्तेत्रवं, देवादयश्च निन्दारे भवन्ति, इति चेदुच्यते नाभीत्यादि। बुधस्तत्त्वज्ञो देवादीन् स्वकृताप्रशस्तकम्मेणा उन्मादाय प्रवृत्तान् नाभिशंसेत् न निन्देत् । यतो बुधः सुखदुःखयोः कर्तारमात्मानमेव मन्येत न खपरमिति, तस्मादात्मन एव सुखदुःखकर्तृवात् श्रेयस्करं शुभकरं मार्ग बुधः प्रतिपद्यत नोत्वसेत् नोल्लङ्घयेत्। ननु कुतो नोझसे दित्यत आह-देवादीनामित्यादि। उपचितिः प्रीणनं, तेभ्यश्च देवादिभ्यश्च ते विरोधा उपचितिविरोधहितसेवनविरोधा एवमन्यच्च सर्वम् आत्मनि आयत्तमधीनं चिकीपश्चद्भवति कत्तु चालं भवति न चेन्न भवति ॥ १८ ॥
देवाचावेशजनितोऽव्ययं न देवादिकृत इत्याह-न ह्यस्ति कृतकृत्यतेति ; न यस्मादशुभकर्मणा कृते उन्मादे पुनर्देवादिकृत्यत्वमस्ति, न हि कृतं पुनः क्रियते, देवादयश्च कर्मपराधीना एवेति भावः । किंवा 'न ह्यस्य कृतकृत्यता' इति पाठः, तत्र कृतेनैव प्राक्तनकर्मणा उन्मादितो न कृत्यः करणीयः पुरुषो भवति ; अन्यथा, सर्वथा सर्वेषामेवाविशेषेण देवाघन्मादः स्यात् ; तस्यैव उन्मादः स्यात्, येनैवोन्मादफलजनकं कर्म कृतम्, स एव देवादिभिः कर्मपराधीनैरभिगम्यते । भनेनाभिप्रायेणाह-न ह्यस्य कृतकृत्यता इति ; अकृतपापकर्मणो न देवायभिगमनीयतास्तीत्यर्थः । यस्माद् देवादयोऽत्र पराधीनास्तस्माद देवादयो नोपलभ्याः। न च देवादिभ्यो भेतव्या इत्याहप्रज्ञापराधादित्यादि । नाभिशंसेदिति नोपलभेत। आत्मानमित्यादौ आत्मैव शुभाशुभकर्मकरणात् सुखदुःखयोर्यथासंख्यं कारणं भवतीति वाक्यार्थः ; नो सेदिति देवादिभ्यः, एवमेवामी शुभकर्माणमपि गृह्णन्तीति कृत्वा नो सेत्। अपचितिः पूजा ; ते चेत्यादौ ते चेति देवापचितिः हितोपसेवनञ्च ; तेभ्यो विरोधश्चेति तेभ्यो देवादिभ्यो विरोधो यथा भवति
* नो सेदित्यपि पाठः।
0102
For Private and Personal Use Only