________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६८ चरक-संहिता।
उन्मादनिदानम् भवन्ति चात्र। नैव देवा न गन्धर्वा न पिशाचा न राक्षसाः। न चान्ये स्वयमुक्लिष्टमुपक्लिश्यन्ति मानवम् ॥ ये त्वेनमनुवर्त्तन्ते क्लिश्यमानं स्वकर्मणा। न तन्निमित्तः क्लेशोऽसौ न ह्यस्ति कृतकृत्यता ॥ प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः ।
नाभिशंसेट् बुधो देवान् न पितृन् नापि राक्षसान् ॥ असाध्येन निजेन संयोग वा असाध्यं विद्यात्। इति वाशब्दव्यवस्था। साध्ययोः निजागन्खोमिथः संयोगन्तु साध्यं विद्यादिति। तस्य निजागन्तुमंसगस्य साधनसंयोगं निजस्य साधनानां स्नेहस्वेदादीनामागन्तोः साधनैः मंत्रौषधिमण्यादिभिः सह संयोगम् ॥१७॥ __गङ्गाधरः-ननु देवादयः किं पुरुषमुन्मादयन्ति तेषामनिष्टमकुर्वन्तमनिष्टकरं हि हिंस्यादित्याशङ्कायामाह-भवन्तीत्यादि । नवेत्यादि। देवादयो न मानवमुपक्लिश्यन्ति क्लेशयन्ति ; यतस्तु मानवं स्वयं प्रज्ञापराधात् पूर्वकृता. प्रशस्तकर्मणा खतः क्लिष्टं । ननु तत् कथमुन्मादयन्तीत्यत आह-ये खेनमिति । ये तु देवादयः खकर्मणा क्लिश्यमानमेनं पुरुषमनुवत्तेन्ते तस्य पुरुषस्यासौ क्लेशो न तन्निमित्तस्तत्तद्देवादिनिमित्तो न ज्ञेयः। ननु देवादय एव उन्मादयन्ति इति दृश्यते तत्तल्लिङ्गदर्शनात् कथं तत्तद्देवादिनिमित्तो नासो क्लेश इत्यत आह-न ह्यस्तीत्यादि । आत्मनः प्रज्ञापराधात् कृतकमजे व्याधी त्रिदोषजोन्मादे हिंसार्थिना देवादिनानुबन्धो भवति, तदा असाध्यसंयोगो भवति ; असाध्यसाध्यसंयोगस्तु एकदोषोन्मादे हिंसार्थिनोन्मादयोगात् तथा हिंसार्थिनोन्मादे हि दोषोन्मादानु. बन्धाच्चेत्यादिशैं यः ; साध्यसंयोगस्य साध्यरूपतयैव साध्यतायां सिद्धायां पुनः 'साध्यम्' इति वचनं साध्यरूपविकारान्तरसम्बन्धे विकारभूयस्त्वेनासाध्यशङ्काप्रतिषेधार्थम् ; साधनसंयोगमेवेति निजागन्तुसाधनमेलकमित्यर्थः ॥ १७ ॥
चक्रपाणिः-सम्पति देवापन्मादहेतुपरिग्रहार्थ देवेष्वपि कृतमेव कर्म कारणं दर्शयतिनैवेत्यादि । 'भनुवर्त्तन्ते' इतिवचनात् दुष्कृतकर्मप्ररिता एव देवादयोऽशुभकर्माणमभिनिविशन्तीति दर्शयति ; यदि हि एवमेव देवादयः कर्मनिरपेक्षा उन्मत्तं कुर्युः, तदा सर्वानेव कुर्युरिति भावः ; स त तुकः क्लेश इति नासौ देवादिकृत उन्माद इत्यर्थः । अथ कथं
For Private and Personal Use Only