SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः निदानस्थानम्। १३६७ ते तु खलु निजागन्तुविशेषेण साध्यासाध्यविशेषेण च विभज्यमानाः पञ्च सन्तो द्वावेव भवतः। तौ च परस्परमनुबध्नीतः कदाचिद् यथोक्तहेतुसंसर्गात्। तयोः संस्कृष्टमेव पूर्वरूपं भवति संसृष्टमेव लिङ्गश्च । तत्रासाध्यसंयोग साध्यासाध्यसंयोग वा असाध्यं विद्यात्, साध्यन्तु साध्यसंयोगम् । तस्य साधनं साधनसंयोगमेव विद्यादिति ॥ १७॥ . गङ्गाधरः-पञ्चविधोन्मादानां भेदान्तरमाह-ते खित्यादि। ते वातादिभेदेन पञ्च सन्तोऽपि निजागन्तुभेदेन द्वौ भवतः। साध्यासाध्यभेदेन च द्वौ भवतः। तो निजागन्तू साध्यासाध्यौ चोन्मादौ परस्परमनुवधीतः। निजम् आगन्तुरनुबन्नाति आगन्तुश्च निजोऽनुबन्नाति । तत्र साध्यासाध्यौ च परस्परम् अनुबन्धीत इति साध्योऽसाध्यमनुबन्नाति असाध्यः साध्यमनुबनाति असाध्यश्चासाध्यं साध्यश्च साध्यमिति तात्पर्यम् । ननु निजागन्योः परस्परानुबन्धः कर्जायते इत्यत आह-तयोरित्यादि। तयोनिजागन्खोः साध्यासाध्ययोश्च । इति संसृष्टैः पूर्वरूपैलिङ्गैश्च निजागन्तुसंसज्जनं तयोश्च साध्यासाध्यसंसज्जनं शेयमित्यर्थः । एतेन निदानसंसर्गात् संसृष्ट एव निजागन्तू. न्मादो भवतीति सूचितम् । असंसृष्टनिदानादसंसृष्टतया तु जातो निजो वागन्तुर्वाभिप्रटद्धो यदि स्यात् तदा तु मिथोऽनुवन्धिवं पूर्वमेव व्याख्यातं, सर्वव्याधिव्याख्याने आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमति प्रद्धः इति वचनेन । ननु साध्यासाध्यसंसर्गे साध्यमसाध्यं वा कच्छ वा कथं विजानीम इत्यत आह-तत्रेत्यादि। असाध्ययोद्व योनिजागन्खोः परस्परं संयोगमसाध्यं विद्यात् । साध्यस्य निजस्यासाध्येनागन्तुना संयोगं साध्यस्यागन्तोः इह च देवादिवचनेन देवाद्यनुचरा देवादिसधर्माणो ग्राह्याः , देवादयस्तु न मानुषानाविशन्ति ; उक्त हि सुश्रुते-“न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति। ये त्वाविशन्तीति वदन्ति मोहात् ते भूतविद्याविषयादपोह्याः ॥” इत्यादि। हिंसार्थिगृहीतस्य असाध्यत्वेन तद्विज्ञानार्थ सामान्योक्तान्यपि लक्षणानि शृङ्गमाहिकतया ब्रुवते। तद् यथेत्यादौ 'गमनम्' देवतीर्थादिगमनम् ॥ १६ ॥ चक्रपाणिः--ताविति तौ निजागन्तू ; परस्परमनुबधीतः कदाचिदिति न सर्वदा। यथोक्तहेतुसंसर्गादिति निजागन्तुहेतुमेलकात् । तत्रोति निजागन्तुसंसर्गे ; असाध्यसंयोगमिति यदा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy