________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६६
चरक-संहिता। ( उन्मादनिदानम् नगरनिगमचतुष्पथोपवनश्मशानायतनाभिगमने वा, द्विजगुरुसुरपज्याभिधर्षणे वा, धाख्यानव्यतिक्रमे वा, अन्यस्य वा कर्मणोऽप्रशस्तस्यारम्भ। इति अभिघातकाला व्याख्याता भवन्ति ॥ १५ ॥ . त्रिविधन्तु खलन्मादकराणां भूतानामुन्मादने प्रयोजनं भवति। तद यथा-हिंसा रतिरभ्यर्चनञ्चेति। तेषां तं प्रयोजनविशेषमुन्मत्ताचारविशेषलक्षणविद्यात्। तत्र हिसार्थमुन्मायमानोऽग्निं प्रविशत्यासु वा मजति स्थलात् श्वभ्र वा पतति, शस्त्रकषाकाष्ठलोष्ट्रमुष्टिभिः हन्त्यात्मानम् अन्यच्च प्राणवधार्थमारभने किञ्चित्, तमसाध्यं विद्यात्। साध्यौ पुनावितरौ। तयोः साधनानि मन्त्रौषधिमणिमङ्गलबलुपहारहोम-नियमवतप्रायश्चित्तोपवासस्वस्तायनप्रणिपातगमनादीनि । इत्येवमेते पञ्चोन्मादा व्याख्याता भवन्ति ॥ १६ ॥ अनाचमने, दिग्वाससि दिगम्बरभावे । निशि चतुष्पथोपगमनस्य विशेषेणाभिघातकालखं बोध्यं पुनरुक्तखात्। अभिघातकाल इति देवादीनामुन्मादकरण. कालः ॥१५॥
गङ्गाधरः-ननु देवादयः किमर्थमुन्मादयन्ति इत्यत आह-त्रिविधन्तु इत्यादि। रतिविहारः। सुश्रतेऽप्युक्तम्-अशुचिं भिन्नमर्यादं क्षतं वा यदि वाक्षतम् । हिंसुर्हिसाविहारार्थ सत्कारार्थमथापि च ।। इति । ननु हिंसाद्यर्थग्रहणं देवादीनां कुतो शायत इत्यत आह-तत्रेत्यादि । तत्र त्रिविधप्रयोजनेषु । तमसाध्यमिति हिंसाथ ग्रहणमसाध्यम् । इतरौ विपर्ययलक्षणौ ॥ १६ ॥
पुनश्चतुष्पथवचनं, निशि पुनश्चतुष्पथगमनप्रदर्शनार्थम् । एकस्येत्यादौ तु दिवाप्येकस्य चतुष्पथगमनं ब्रवते। धर्मा ज्यानव्यतिक्रम इत्यविधिना धर्मप्रकाशने ॥ १५ ॥ . चक्रपाणिः-रतिः क्रीड़ा ; अभ्यर्चनं पूजा ; उन्मादाचारविशेषलक्षणैर्विद्यादिति उन्मत्तस्य आचारविशेषरूपैर्लक्षणैः हिंसार्थिनोन्मादितं विद्यात्, तत्र हिंसार्थिनोन्मादितो हिंसानुगुणमग्निप्रवेशाद्याचरति । रत्यर्थिना चौमादितः क्रीडा प्रचरति । पूजार्थिना गृहीतो पूजां चेष्टते ;
For Private and Personal Use Only