________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
निदानस्थानम् ।
१३६५ उन्मादयिष्यतामपि तु खलु देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचानां गुरुवृद्धसिद्धानां* वा एष्वन्तरेष्वभिगमनीयाः पुरुषा भवन्ति । तद् यथा—पापस्य कर्मणः समारम्भे, पूर्वकृतस्य कर्मणः परिणामकाले, एकस्य वा शून्यगृहनिवासे, चतुपथाधिष्ठाने, सन्ध्यावेलायाम, अप्रयतभावे वा पर्वसन्धिषु वा मिथुनीभावे, रजस्वलाभिगगने वा, विगुणे वाध्ययनबलिमङ्गलहोमप्रयोगे, नियमव्रतब्रह्मचर्यभङ्गे वा, महाहवे वा, देशकुलपुरविनाशे वा, महामहोपगमने वा, स्त्रिया वा प्रजननकाले, विविधभूताशुभाशुचिसंस्पर्शने वा, वमनविरेचनरुधिरतावे वा, अशुचेरप्रयतस्य वा, चैत्यदेवतायतनाभिगमने वा, मांसमधुतिलगुड़मद्योच्छिष्टे वा, दिग्वाससि वा, निशि
गङ्गाधरः-ननु देवादिषु कः कस्मिन् कस्मिन् काले पुरुषमभिगच्छतीत्यत आह-उन्मादयिष्यतामित्यादि। एष्वन्तरेषु अभ्यन्तरसमयेषु । तद् यथेत्यादि। पापस्येत्यादि। एकस्य एकाकिपुरुषस्य शून्यगृहे पलायितगृहे निवासकाले, अप्रयतभावे असंयतभावे, पर्वसन्धिषु पञ्चपर्वणां पौर्णमास्यादीनां सन्धिसमयेषुः अध्ययनादीनां प्रयोगे विगुणे वैषम्येणाचरणे, नियमः सत्कम्मसु नियमः, प्राजापत्यादि व्रतं, ब्रह्मचय्येमुपस्थसंयमः महाहवे महायुद्धे महाग्रहोपगमने, दीघेकालमेकराशिस्थितिशीलो ग्रहो वृहस्पत्यादिस्तस्य राश्यन्तरगमने, प्रजननकाले प्रसपकाळे, विविधानां भूतानां श्वशृगालादीनाम्, अशुभानां गोधूल्यादीनाम्, अशुचीनां भस्मकेशास्थ्यादीनां संस्पर्शने, रुधिरनावः सिराव्यधादिना क्षताद्वान्यस्माद वा निमित्तात् । अशुचेः पुरुषस्य अप्रयतस्यासंयतस्य पुरुषस्य वा चैत्ये ग्राम्यदेवायतनमधानक्षे देवायतने तद्गृहस्थभवनस्थदेवालये मांसादुरच्छिष्टं मांसादिभक्षणानन्तरम् चक्रपाणिः-पर्वसन्धिरमावस्या पौर्णमासी च। दिग्वाससीति नग्ने। निशि' इत्यादौ
* गुम्वृद्धसिद्धानामिति पाठो न दृश्यते केषुचित पुस्तकेषु ।
For Private and Personal Use Only