SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६४ चरक-संहिता। [ उन्मादनिदानम् तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यतामारम्भविशेषो भवति, तद् यथा-अवलोकयन्तो देवा जनयन्त्युन्माद, गुरुवृद्धसिद्धमहर्षयोऽभिशपन्तः, पितरस्तु धर्षयन्तः ; स्पृशन्तो गन्धर्वाः, प्रविशन्तो यक्षाः, राक्षसास्वात्मगन्धम् * आघापयन्तः, पिशाचाः पुनरारुह्य वाहयन्तः ॥ १३ ॥ तस्येमानि रूपाणि भवन्ति। तद यथा-अमर्त्य-+-बलवीर्य-पौरुष-पराक्रम-ग्रहण-धारण-स्मरणवचनज्ञान-विज्ञानानि अनियतश्चोन्मादकालः ॥ १४ ॥ गङ्गाधरः-तत्रायमित्यादि। तत्रागन्तून्मादाभिनिव्वत्तने उन्मादकराणां देवादीनां भूतानां तं पुरुषमुन्मादयिष्यताम् उन्मत्तं करिष्यतामुन्मत्तकरणेऽयमारम्भविशेष उन्मादजनकव्यापारस्य विशेषः देवादिविशेषे व्यापारविशेषो न तु व्यापारसामान्यमस्ति। अयं को व्यापारविशेष इत्यत आह-तद् यथेत्यादि । अवलोकयन्त इत्यादि। देवानां नरोन्मादकरणे नरं प्रत्यवलोकनम् । उन्मादं जनयन्तीत्यस्य परत्र सर्वत्रान्वयः। गुरुटद्धसिद्धर्षीणामभिशापः, पितॄणां घर्षणं, गन्धर्वाणां स्पर्शनं, यक्षाणां शरीरे समावेशः, राक्षसानामात्मगन्धघ्रापणं, पिशाचानामारोहणपूर्वकवाहनम् उन्मादकरणे व्यापारविशेषः॥१३॥ __ गङ्गाधरः-तस्यागन्तून्मादस्य रूपाणि सामान्यतो रूपाणि । इमानि कानीत्यत आह-तद् यथेति । अमत्तात्यादि। अमर्त्यानां मनुष्यभिन्नानां देवादीनां बलवीर्यादिवद् बलवीर्यादिकम्, अनियतश्चोन्मादकालः कदाचित् प्रातः कदाचित् सायं कदाचिन्मध्याह्न एवमन्यत्र उन्मत्तताधिक्यमित्यर्थः । इत्येतानि सामान्यरूपाणि भूतोन्मादानां, विशेषरूपाणि देवादिजानि चिकित्सिते वक्ष्यन्ते। सुश्रुतेऽप्युक्तं-गुह्यानागतविज्ञानमनवस्थासहिष्णुता। क्रिया वाऽमानुषी यस्मिन् स ग्रहः परिकीतेते ॥ इति ॥ १४ ॥ काररुचित्वम् । भनोजा इत्योजाकार्यबलादिरहितः ; प्रवर्तनं प्रेरणम, दर्शयन्त इत्यत्रात्मानम् इति शेषः। 'भत्यात्म'शब्दो बलादिभिः प्रत्येकमभिसम्बध्यते ; आत्मानमिति चेति अत्यात्मत्वेनात्माननुरूपबलादियोगो भवतीत्यर्थः ॥ १२-१४॥ * आत्मगन्धमित्यत्र आमगन्धमिति वा पाठः। । अमात्यत्र अत्यात्मेति चक्रपाणिः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy