SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः १३६३ ७म अध्यायः] निदानस्थानम् । एवंविधं कम्माप्रशस्तमारभते। तमात्मनोपहतमुपध्नन्तो देवादयः कुर्वन्त्युन्मत्तम् ॥ ११॥ तत्र देवादिप्रकोपनिमित्तेनागन्तुकोन्मादेन पुरस्कृतस्य इमानि पूर्वरूपाणि भवन्ति। तद् यथा-देवगोब्राह्मणतपस्विनां हिंसारुचित्वं कोपनत्वं नृशंसाभिप्रायतारतिरोजोवर्णच्छायावलवपुषाञ्चोपतप्तिः । स्वप्ने च देवादिभिरभिभत्सनं प्रवर्तनश्चेत्यागन्तुनिमित्तस्योन्मादस्य पूर्वरूपाणि भवन्ति । ततोऽनन्तरमुन्मादाभिनित्तिः ॥ १२ ॥ पुराणवेदादिपाठश्रवणादिकमवमत्यान्यद् वा कारभते इति पूचकृताप्रशस्तकर्मणोऽपि निमित्तं प्रज्ञापराधः, इत्यतः पूर्वकृताप्रशस्तकर्ममात्रमागन्तून्मादस्य कारणमिति यत् तन्नासमग्रवचनादिति भावः । ननु देवादयोऽमी उन्मादयन्ति ते च हेतव इति तवाप्यसमग्रवचनमित्यत आह-तमात्मनोपहतमित्यादि। तं प्रशापराधात् पूर्व कृताप्रशस्तकम्मेणामात्मना कृतेन कर्मणा स्वेनैवोपहतं देवादय उपनन्त उन्मत्तं कुर्वन्ति न तु पूर्व प्रशासमयोगात् कृतप्रशस्तकर्माणमकृताप्रशस्तकणिं वात्मनानुपहतं पुरुषमिति। तत्र देवादयोऽपि पूर्वकृताप्रशस्तकर्मभिः कुपिता हेतव इति भावः ॥११॥ ___ गङ्गाधरः-तत्रेति । तथाविधागन्तून्मादाभिनिव्वत्तेने पुरस्कृतस्य जन्मनः प्राक्कालिकस्येमानि रूपाणि अर्थात् आगन्तून्मादस्यमानि पूर्वरूपाणि भवन्तीत्यर्थः। इमानि कानीत्यत आह-तद् यथेत्यादि। देवादिहिंसायां रुचिवमभिलाषिता प्रीतिरिति यावत्, कोपन क्रोधनवम्, नृशंसायां सतां निन्दनेऽभिप्रायो यस्य तस्य भावस्तथा, अरतिरनवस्थचित्तता, ओजो बलहेतुर्धातुरेषामुपतप्तिरुपतापः। देवादिभिर्भर्त्सनं देवादिकत्तुकं निन्दनं खप्ने खमदर्शने यस्य। प्रभसनश्च स्वस्मिन् देवादिकत्त कमेव स्वप्ने दृश्यते। ततोऽनन्तरं पूर्वरूपानन्तरम् ॥१२॥ यतः, प्राक्तनमपि हि कर्म प्रज्ञापराधजमेव ; किंवा तस्य निमित्तं प्रज्ञापराध एवेत्यनेन, तस्येति भप्रशस्तकर्मणः प्रज्ञापराध एव कारणमिति दयते ; तेन कर्मजस्य प्रज्ञापराधान्तर्निविष्ठत्वम् उच्यते । आत्मना हमित्यात्मना कृतेनाशुभकर्मणा हतम् ; उपनन्त इत्यावेशं कुर्वन्तः ॥११॥ चक्रपाणिः-पुरस्कृतस्येति अभिशपनीयवया व्यवस्थापितस्य । नृशंसाभिप्रायता पराप For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy