________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६२ चरक संहिता। उन्मादनिदानम्
भवति चात्र। उन्मादान् दोषजान साध्यान् साधयेद भिषगुत्तमः। अनेन विधियुक्तेन कर्मणा यत् प्रकीर्तितम् ॥इति ॥१०॥
यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवत्युन्मादः, तमागन्तुकमाच. क्षते। केचित् पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति तस्य निमित्तं, तत्र च हेतुः प्रज्ञापराध एवेति भगवान् पुनर्वसुरात्रेय उवाच । प्रज्ञापराधाद्धायं देवर्षि पितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्य्यपूज्यानवमत्याहितान्याचरति। अन्यद्वा किञ्चित्
गङ्गाधरः-भवति चात्रेति । विधियुक्तनानेन कर्मणा उक्तस्नेहादिना कर्मणा ॥१०॥ ___ गङ्गाधरः-परिशिष्टमागन्तुमुन्मादं लक्षयति-तत्रागन्तून्मादस्य दोषो. म्मादेभ्यो विशेषं दर्शयति-यस्वित्यादि। दोषनिमित्तेभ्य इति दोषा व्यस्ताः समस्ता वा निमित्तानि येषां तेभ्यस्तथा दोषजेभ्य इत्यथैः । वेदना यातना उपशय इति वेदनोपशयो वेदनापदसान्निध्यात् । न सर्चथोपशमन-सर्वथाप्रशमने। कस्य विज्ञानं विधेयं स्यादिति सर्वत्रैवापातत उपशमनमेवोपशयकायेमवलोक्य व्याधीन परीक्षेतेति ख्यापितम्। .
समुत्थानविशेष दर्शयति-केचिदित्यादि। प्रज्ञापराध एवेत्येव शब्देन पूर्वकृताप्रशस्तकमैमात्रस्य हेतुखव्यवच्छेदः। ननु किं पूर्वकृतम् अप्रशस्तं कर्म नागन्तून्मादस्य हेतुरित्याशङ्कायामाह-प्रज्ञापराधाद्धायमित्यादि। अयमागन्तून्मादिवेन भावी देवादीन अवमत्येत्यवशाय एवं विधमन्यदप्रशस्तं कर्म
चक्रपाणिः-अवरोधनं तमोगृहावरोधनादि ; विधियुक्तेनेत्युन्मादचिकित्सिते प्रपञ्चवक्ष्यमाण. विधियुक्तेनेत्यर्थः ॥ ९॥१०॥
चक्रपाणिः केचित् पुनरित्यादौ 'तस्य निमित्तम्' इति पदमावृत्य पूर्वेण परेण च योजमीयम् ; तत्र प्रज्ञापराध एव तस्य निमित्तमिति ब्रुवता अप्रशस्तप्राक्तनकर्मजन्यत्वं न मिप्यते ;
* समुत्थानपूर्वरूपलिङ्गविशेषसमन्वित इति चक्रतः पाठः ।
For Private and Personal Use Only