________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६०
चरक-संहिता। | उन्मादनिदानम् शीतोदकान्नाभिलाषश्च, सन्तापश्चातिवेलं, ताम्रहरितहारिद्रस्तब्धानता, पित्तोपशयविपर्यासात् अनुपशयता चेति पित्तोन्मादलिङ्गानि भवन्ति ॥ ६॥
स्थानमेकदेशे, तूष्णीम्भावोऽल्पशश्चंक्रमणं, लालासिंघाणस्रवणम्, अनन्नाभिलाषो रहःकामता च, बीभत्सत्वं शौचद्वषः, स्वप्ननित्यता, श्वयथुश्चानने, शुक्लस्तिमितमलोपदिग्धाक्षत्वं, श्लेष्मोपशयविपर्यासादनुपशयता चेति श्लेष्मोन्मादलिङ्गानि भवन्ति ॥७॥
त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात्। तम् असाध्यमित्याचक्षते कुशलाः॥८॥ पलायनम्। प्रच्छायस्य शीतयोरुदकान्नयोश्वाभिलाषः। सन्तापो गात्रस्य उष्णलं, चकाराद्विननवं, ताम्र वा हरितं वा हारिद्र वा स्तब्धश्चाक्षि यस्य तस्य भावः॥६॥
गङ्गाधरः-कफोन्मादलिङ्गान्याह-स्थानमित्यादि। एकदेशे गृहककोणे स्थितिः, तूष्णीम्भावो मौनलम्, अल्पशश्चंक्रमणम, सिंघाणकं नासिकास्थकफक्लेदः तयोः प्रस्रवणम् । रहःकामता गोप्यावस्थानाभिलाषिता। बीभत्सवं देहस्य निन्दनीयभावः। खमनित्यता सतत निद्रारतिः, आनने श्वयथुः। शुक्लश्चाश्रुपिचिटादिना स्तिमितञ्च मलेन पिचिटेन उपदिग्धश्चाक्षि यस्य तस्य भावः ॥७॥
गङ्गाधरः-त्रिदोषेत्यादि। त्रिदोषलिङ्गसन्निपाते तु त्रिदोषाणां यानि स्वस्खलिङ्गान्युक्तानि तेषां सम्यक् साकल्येनाधिक्येन च निपाते सति सान्निपातिकमुन्मादं विद्यादिति। विकृतिविषमसमवायारब्धखात् चतुर्थमिममुन्मादमुक्तवान्, प्रकृतिसमसमवायारब्धांस्तु द्वन्द्वसन्निपातजान नोक्तवान्,
चक्रपाणिः-प्रमर्ष इत्यादि पित्तोन्मादलिङ्गम् ; संरम्भश्रारभटी ; स्वेषां स्वीयानाम् । कफोन्मादे रहो विजनम् ॥ ६-८॥
* लालासिंघाणकास्रस्रवणमिति पाठान्तरम् ।
For Private and Personal Use Only