________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म अध्यायः
निदानस्थानम् ।
१३५६
यानञ्चायानरलङ्करणञ्चा तलङ्कारिकैः
गिरामुत्सर्गः * फेनागमश्चास्यात् । अभीक्ष्णं स्मितहसितनृत्यगीतवादित्र संप्रयोगाश्चास्थाने, वीणावंशशङ्खशष्प + तालशब्दानुकरणमसान्ना, द्रव्यैः, लोभश्चाभ्यवहार्येष्वलव्धेषु लब्धेषु चात्रमानः । तीव्रत्वं मात्सय् + काश्यं पारुष्यमुत्पिण्डतारुणाचता वातोप शयविपर्य्यासादनुपश्यता
चेति
वातोन्मादलिङ्गानि
भवन्ति ॥ ५ ॥
अमर्षः क्रोधः संरम्भश्चास्थाने, शस्त्रलोष्ट्रकषाकोष्ठमुष्टिभिश्च / भिहननं स्वेषां परेषां वा, अभिद्रवणं, प्रच्छायभागः । अनियतानां गिरां वचनानामुत्सर्गः प्रयोगः प्रलाप इति यावत् । आस्यात् फेनागमः । अस्थाने अविषये स्मितादिकं, शष्पं तृणघासादिकम्, अतालः संगीतविधौ ताल: काळक्रियामानं तद्विपय्येयेण शब्दस्त्वतालशब्दः, वीणादीनां शब्दानुकरणशब्दकरणम्, असाम्नामीत्या, अवमानस्त्ववक्षा, मात्सय्यं दम्भः । उत्पिण्डितमुच्छून पिण्डाकारमरुणञ्चाक्षि यस्य तस्य भावः । वातोपशयविपर्य्ययाद् वातानुपशयात् ॥ ५ ॥
गङ्गाधरः- पिचोन्मादलिङ्गान्याह - अमर्ष इत्यादि । अमर्षोऽसहिष्णुता । क्रोधः कोपः । संरम्भ आरभटी । अस्थानेऽविषयेऽसहिष्णुतादयः । कषा रज्जुवदश्वमहरणम्, शस्त्रादिभिः स्वेषां परेषां वाभिहननम् । अभिद्रवणं इति वातादुन्मादलिङ्गमित्यर्थः । परिसरणं भ्रमणम् शम्या दक्षिणहस्तेन वादनम् ; तालस्तु वामहस्तेन वादनम् ; यदुक्त विशाखिनेना - "शम्या दक्षिणहस्तेन वामहस्तेन तालकः । उभाभ्यां वादनं यत् तु सन्निपातः स उच्यते" इति । असाम्नेत्युच्चैः; अयानैरिति हस्त्यादियानव्यतिरिक्तः । लब्धेषु चावमान इति प्राप्तेष्वभ्यवहार्येष्वाहाय्यैष्ववधीरणञ्च, न केवलमवमानः किन्तु तीव्र मात्सर्य्यञ्च, अभ्यवहार्य्यं लब्ध्वा न किञ्चित् दातुमिच्छतीत्यर्थः । वाते उपशय उपशय हेतुस्नेहादिः वातोय, तस्य विपर्यासो रुक्षादिः, तेनानुपशयिता असुखिता इत्यर्थः 'च'काराद् वातानुगुणनेापशयिता च गृह्यते ॥ ५ ॥
●
सततं गिरामुत्सर्गइति पाठान्तरम् । श्री तीव्र मात्सय्यमिति वा पाठः ।
Acharya Shri Kailassagarsuri Gyanmandir
+ शष्पेत्यत्र शम्या इति चक्रः पठति ।
For Private and Personal Use Only