________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५८
चरक-संहिता। * उन्मादनिदानम् ज्वरश्चाभीक्षणमभीक्ष्णमुन्मत्तचित्तत्वमदिताकृतिकरणमुन्मर्दितत्वञ्च व्याधेः, स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानाञ्च रूपाणामप्रशस्तानाम्, तिलपीड़कचक्राधिरोहणं, वातकुण्डलिकाभिश्चोन्मथनं, मजनश्च कलुषाम्भसामावर्ते, चक्षुषोश्चापसर्पणम्। इति दीषनिमित्तानामुन्मादानां पूर्वरूपाणि भवन्ति ॥ ४॥ .
ततोऽनन्तरमुन्मादाभिनिर्वृत्तिरेव । तत्रेदमुन्मादविशेषविज्ञानं भवति । तद यथा---परिसरणमजस्रमतिभ्र वौष्ठांसहन्वग्रहस्तपादाङ्गविक्षेपश्चाकस्मात्, सततम् अनियतानाच आयासः, सम्मोहाविषये संमुग्धता, अनुवगविषये उद्विग्नता, सततमनवरतम् ; अभीक्ष्णमुन्मत्तचित्तसमुन्मादिनामिव चित्तं न तून्मत्तचित्तम्, अदिताकृतिः हनुवक्रीभावस्तत्करणं, व्याधेः व्रणशोथादिरूपस्य उन्मदितवमुन्मईनम्, भ्रान्तादिरूपाणां वस्तूनामभीक्ष्णं स्वप्ने दर्शनम्, अप्रशस्तानाञ्च रूपाणां मूर्तीनां स्वप्ने दर्शनम्, तिलपीड़कचक्रं घानियन्त्रस्य चक्रम्, वातकुण्डलिभिः कुण्डलीभूतवहिश्वरवायुना उन्मथनमाकुलीकरणम्, आवर्ते जलजभ्रमे, अपसर्पणमितस्ततश्चालनम् । सुश्रुते च-मोहोवेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम् । अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् । वायुनोन्मथनश्चापि भ्रमश्चक्रस्थितस्तथा । यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति । इति ॥४॥
गङ्गाधरः-ततोऽनन्तरमित्यादि। ततोऽनन्तरं पूज्वरूपानन्तरम् । इदं किमित्यत आह-तद् यथेति। परिसरणमज सर्वदा परिभ्रमणम् । अतिभ्र वौष्ठांसहन्वग्रादिविक्षेपणमितस्ततश्चालनम्। हनोरग्रम् ओष्ठाधोइत्यादि ज्ञेयम् । उन्मत्तचित्तत्वमिति उद्भ्रान्ताकृष्टचित्तत्वम् । उददितत्वमिति ऊचुकाये पीड़ितत्वम् ; अर्दिताकृतिकरणमिति अदितस्य आकृतिर्वक्रार्द्धवक्रीभावादिलक्षणं तत्करणम् । व्याधेरिति व्याधेबुगादिभ्रमरूपस्य उन्मादस्य यथोक्तानि पूर्वरूपाणीति योजना ; चक्षुषीश्वोपसर्पणमिति चक्षुषोय॑पगम इत्यर्थः ॥ ४ ॥
चक्रपाणिः-ततोऽनन्तरमेवेतिवचनात् पूर्वरूपानन्तरं शीघ्रमेवोन्मादो भवतीति दर्शयति ; मन ये रोगा यथा पूर्व रूपे भूते चिरेण भवन्ति, न तथा उन्माद इत्य। उन्मादविशेषविज्ञानम्
For Private and Personal Use Only