SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः निदानस्थानम् । १३५७ वहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम् । उन्मादं पुनर्मनोबुद्धिसंज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात् ॥३॥ तस्येमानि पूर्वरूपाणि भवन्ति। तद् यथा-शिरसः शून्यता चक्षुषोश्चाखच्छता वनश्च कर्णयोः उच्छासाधिक्यम् आस्यसंस्रवणम्, अनन्नाभिलाषारोचकाविपाकाश्च हृदग्रहो ध्यानायाससम्मोहोवे गाश्चास्थाने, सततञ्च लोमहर्षों निदानपूर्विकां सम्प्राप्तिमुक्त्वा उन्मादस्य निरुक्तिं स्वरूपलक्षणवेनाहउन्मादमित्यादि। भक्तिः श्रद्धया भजनम्। मनःप्रभृतीनां विभ्रममयथावद. भावम्। सुश्रुतेऽप्युक्तं-मदयन्त्युद्धता दोषा यस्मात् उन्मागेमाश्रिताः । मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः। इति । अत्र मदयन्ति मनःप्रभृतीनां विभ्रमं कुव्वन्ति इत्यर्थः। उद्धता अत्युदीर्णाः। उन्मार्गमाश्रिता ऊद्ध हृदयं मार्गान् हृदयमूला मनोवहा दश धमनीः प्राप्ता इत्यर्थः। मानस इति न कामक्रोधादिवन्मानसो व्याधिः, किन्तु शारीरदोषदूषितमनःपाधान्यात् शरीरस्थखे चाप्राधान्यात् मानस इति व्यपदेशः ॥२॥३॥ गङ्गाधरः-सामान्यतः सम्माप्तिमुक्त्वा सामान्यपूव्वरूपाणाह-तस्येमानीत्यादि। तद् यथेत्यादि । शिरसः शून्यता शिरसो लघुतया शिरोमध्ये शून्यभावः, अस्थाने अविषये ध्यानं चिन्ता, आयासकारणाभावे बलेनाप्रकृतिस्थितानाम् ; उपहतमनसामिति कामादिभिः सम्बध्यते ; भूय इति पुनःपुनः ; उपसृत्येति उपगम्य प्रदूप्येति यावत् । उन्मादप्रत्यात्मलक्षणमाह-उन्मादं पुनरित्यादि। विभ्रममिति मनःप्रभृतिभिः प्रत्येक सम्बध्यते ; अत्र मनोविभ्रमाच्चिन्त्यानर्थान् न चिन्तयते, अचिन्त्यांश्च चिन्तयते ; उक्त हि-"मनसश्च चिन्त्यमर्थः” इति ; बुद्धि विभ्रमात् तु नित्यमनित्यम्, प्रियञ्चाप्रियं पश्यति ; वचनं हि-विषमाभिनिवेशो यो नित्यानित्ये प्रियाप्रिये । ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति ॥" इति । संज्ञा ज्ञानम्, तद्विभ्रमादग्न्यादिदाहं न बुध्यते ; किंवा, संज्ञा नामोल्लेखज्ञानम् ; स्मृतिविभ्रमात् तु न स्मरति, अयथावद्वा स्मरति ; भक्तिरिच्छा, तद्विभ्रमाच्च यत्रेच्छा पूर्वमासीत्, तत्रानिच्छा भवति ; शीलविभ्रमात् क्रोधनोऽक्रोधनो वा भवतीति ; चेष्टाविभ्रमादनुचितचेष्टो भवति ; आचारः शास्त्रशिक्षाकृतो व्यवहारः, तद्विभ्रमादशौगद्याचरति ॥ १-३॥ चक्रपाणि:-अस्थाने इत्यविषये ; तेन अध्यानविषये ध्यानम्, असंमोहविषये च मोह For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy