________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५६ चरक-संहिता।
उन्मादनिदानम् उत्सन्नदोषाणां, समलविकृतोपहितान्यनुचितान्याहारजातानि वैषम्ययुक्तेन उपयोगविधिनोपयुञ्जानानाम्, तन्त्रप्रयोगमपि विषममाचरताम्, अन्याश्च शरीरचेष्टा विषमाः समाचरताम्, अत्युपक्षीणदेहानां, व्याधिवेगसमुद्भामितोपहतमनसां वा, काम-राग-क्रोध-लोभ-हर्षभयमोहायासशोकचिन्तोद्वगादिभिभूयोऽभिघाताभ्याहतानां वा मनसुअपहते बुद्धौ च प्रचलितायाम्, अत्युदोर्णत्वाद दोषाः प्रकुपिता हृदयमुपसंमृत्य मनो
भूतसत्त्वगुणानाम् उत्सन्नदोषाणाम्, उन्मार्गमाश्रितातिप्रवृद्धवातादिदोषवताम् । समलेत्यादि। समलानि मलिनानि विकृतानि अप्राकृतानि च यानि तैद्रव्यरुपहितानि उपस्कृतानि अनुचितान्यसात्म्यानि आहारजातानि विषमेणोपयोगविधिना प्रकृतिकरणाद्यष्टविधानामाहारविधिविशेषायतनानां वैषम्येण हीनाधिकप्रकारेण उपयुञ्जानाश्चद्भवन्ति भीरुप्रभृतयः पुरुषास्तदा तेषां तन्त्रप्रयोगं वेदादिशास्त्रोक्तं स्वाभीष्टदेवसिद्धिराजादिवशीकरणोचाटनादिनिमित्तं प्रयोगं शवारोहणादिकर्म ये विषमं यथाविधि न कृखा विधिविपव्ययेणाचरन्ति तेषाम्। अन्याश्च शरीरस्य विषमाश्चेष्टा विषमाः इमाशानिकपथादिना निशि सन्ध्यादिषु गमनादि ये आचरन्ति तेषां व्याधिवेगेन समुदभ्रामितानां सततोच्चलितचित्तानाम् । उपहतमनसां वा कामादिभिभूयः पुनरपि कामिन्याद्यप्राप्तिप्रभृत्यभिघातैरभि सर्वतोभावेनाहतमनसां बुद्धो प्रचलितायां चञ्चलायां सत्याम् अत्युदीणेलादुन्मार्गाश्रितवेनातिदृद्धखात्, मनोवहानि स्रोतांसि हृदयाश्रिता दश सिराः।
उत्सन्नदोषाणामिति प्रवृद्धोदभ्रान्तदोषाणाम् ; समलैरशुचिभिर्विकृतैश्चेति वैरोधिकैरुपहितानि मिश्रीकृतानीति समलविकृतोपहितानि ; किंचा, समलैर्मलिनैविकृतैः कुष्ठव्यङ्गादिभिः परिजनैः उपहितानि उपढौकितानीति समलविकृतोपहितानि , वैषम्ययुक्त नोपयोगविधिनेति यः प्रकृतिकरणादिराहारोपयोगविधिर्वक्तव्यस्तेन वैषम्ययुक्त न, वैषम्यञ्च प्रकृत्यादीनामशस्तत्वं प्रकृतिगुरुत्वादिभिः कृतं ज्ञेयम् । तन्त्रं शरीरम्, तस्य परिपालनार्थ सदवृत्तोक्तः प्रयोगः। 'शरीरचेष्टा'शब्देन तु गमनादि गृह्यते, तेन न पौनरुक्तम् । 'तन्त्र' शब्दः शरीरे वर्तते ; यदुक्तम्'तन्त्रयन्त्रषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्" इति। प्याधिवेगसमुदभ्रामितानामिति व्याधि
For Private and Personal Use Only