________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः निदानस्थानम् ।
१३५३ तत्रापरिक्षीणवलमांसशोणितो बलवानजातारिष्टः सव्वैरपि शोषलिङ्गैरुपद्रुतः साध्यो ज्ञ यः । बलवानुपचितो छ हि सहत्वाद व्याध्यौषधबलस्य कामं सुबहुलिङ्गोऽपि स्वल्पलिङ्ग एव मन्तव्यः। दुर्बलन्तु अतिक्षीणबलमांसशोणितमल्पलिङ्गमजातारिष्टमपि बहुलिङ्गं जातारिष्टश्च विद्यादसहत्वाद् व्याध्यौषधबलस्य, तं परिवर्जयेत् । क्षणेनैव हि प्रादुर्भवन्त्यरिष्टानि अनिमित्ततश्च अस्यारिष्टप्रादुर्भाव इति ॥ १५ ॥ तदधिककल्प सप्ताष्ट नव दश रूपाणि व्याख्यातव्यानि । चिकित्सिते तु त्रिषड् रूपाणि तेषां तदभिप्रायेण वक्ष्यन्ते ॥ १४ ॥
गङ्गाधरः-अथास्य साध्यखासाध्यखादिकमाह-तत्रेत्यादि। सः अपीत्यपिशब्दात् असम्पूर्णलिङ्गः सुखसाध्यः । कुतः साध्य इत्यत आह-बलवानित्यादि। उपचितो मांसशोणिताभ्यामक्षीणः कामं यथाभिलाषं व्याध्योषधयोवेलस्य वीर्यस्य सहलान सहने क्षमसात् । ननु कुतो दुर्बलं क्षीणमांसरक्तमजातारिष्टमपि जातारिष्टं विद्यादित्यत आह–क्षणेनैव हीत्यादि । अस्य राजयक्ष्मिणो जनस्य दुर्बलस्य क्षीणमांसशोणितस्य क्षणमात्रमरिष्टं भवति कारणाभावतश्चारिष्टं स्यात् । अरिष्टन्तु सुश्रुतेऽप्युक्तम्- महाशनं क्षीयमाणमतीसारनिपीड़ितम् । शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवज्जयेत् । शुक्लाक्षमन्नद्वेष्टारमूद्ध श्वासनिपीड़ितम्। कृच्छण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् । ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् । उपक्रमेदात्मवन्तं दीप्ताग्निम् अकृशं नवम् । अन्यत्र च-परं दिनसहस्रन्तु यदि जीवति मानवः । सद्भिषगभिः उपक्रान्तस्तरुणः शोषपीड़ितः । इति । अत्र महाशनं क्षीयमाणमित्येकमसाध्यलक्षणम्, अतीसारनिपीड़ितमित्यपरं, यक्ष्मिणो मलायत्तजीवितत्वात् । शून
चक्रपाणिः-अपरिक्षीणबलाभिधानेऽपि बलवानिति पदं सहजबलयुक्तत्वोपदर्शनार्थम् ; सहजबलो ह्यनु परिक्षीणबलोऽपि बलबद्भवतीति भावः ; सहत्वाद् व्याध्यौषधस्येति यस्माद व्याधिबलं तथौषधबलञ्च सहते ; तेन न ताभ्यामभिभूयते इत्यर्थः ; अल्पलिङ्ग एवेति अल्पलिङ्ग इव सुखसाध्य इत्यर्थः । बहुलिङ्ग जातारिष्टञ्च विद्यादिति बहुलिङ्गमिवासाध्यं तथा जातारिष्टमिव मारकं विद्यादित्यर्थः ; ननु रिविना मरणं नास्ति ; वचनं हि-"अरिष्टञ्चापि तन्नास्ति
* बलवर्णोपचयोपचित इति पाठान्तरम् ।
For Private and Personal Use Only