________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५२ चरक-संहिता।
शोषनिदानम् अत ऊर्द्ध मेकादश रूपाणि तस्य भवन्ति । तद् यथाशिरसः प्रतिपूर्णत्वं कासः श्वासः स्वरभेदः श्लेष्मणश्छईनं शोणितष्ठीवनं पार्श्वसंरोजनमंसावमदो ज्वरोऽतिसारोऽरोचकश्च इत्येकादश रूपाणि भवन्ति ॥ १४ ॥ सुश्रुते तु-श्वासाङ्गसादकफसंस्रवतालुशोष-वम्यग्निसादमदपीनसकासनिद्राः । शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः॥ स्वप्नेषु काकशुकसल्लकिनीलकण्ठ-गृध्रास्तथैव कपयः कुकलासकाश्च। तं वाहयन्ति स नदोविजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवाहितांश्च । इति । अत्र खप्ने काकादिकत्त कारोहणादिकं दोषजमेव मक्षिकाघुणतृणादिपतनन्तु प्रायोऽन्नेऽदृष्टाधिष्ठितदोषजमेवेति बोध्यम् ॥१३॥
गङ्गाधरः-ननु पूर्वरूपोत्पत्त्यनन्तरं व्याध्युत्पत्तिः, तदानीन्तु रूपाण्युत्पद्यन्ते तत् कथमत्र पूर्वमेव रूपाण्युक्त्वा पूवेरूपाण्युक्तानि, तेन किं शिरःशूलादीनि यान्युक्तानि तानि न रूपाणि, किञ्च साहसादिहेतुतो भिन्नभिन्नलिङ्गानि भवन्तीत्याशङ्कायां सर्वेभ्य एव साहसादिभ्यो निदानेभ्यः कुपितत्रिदोषत एकविधान्येव लिङ्गानि भवन्तीति ख्यापनार्थ पूर्णबलदोषाभिप्रायेण एकादश रूपाण्याह-अत ऊद्ध मित्यादि। अतः पूर्वरूपानन्तरम् एकादश रूपाणीति दोषाणां पूर्णबले न्यूनसंख्याकल्पे एकादश रूपाण्येव न खतो न्यूनरूपाणि, बलाधिक्ये अधिककल्पे तु द्वादशादीनि भवन्तीति बोध्यम् । अस्य स्थानस्य सूत्ररूपखात् दोषाणां बलाल्पत्वे न्यूनसंख्याकल्पे त्रिरूपाणि, तदधिककल्पे चतुःपञ्च रूपाणि, बलमध्यमत्वे न्यूनसंख्याकल्पे पड़ रूपाणि, दिना ; निगमनं नगरविशेषो बहुवसतिजनपदं मण्डलम् । अधिरोहणन्चेति कृकलासादीनाम् एव शरीराधिरोहणम् ; स्वप्ने श्वोष्ट्रखरगमनन्चेहादिनियमेन बोद्रव्यम् ; तेन रिन भवति ; यत् तु वक्ष्यति-"श्चभिरुष्ट्रः खरैर्वापि याति यो दक्षिणां दिशम्" इत्यादि ; तदक्षिणदिनियतस्वाद रिष्टत्वं ज्ञयम्, यत्र रूपं स्वप्नरूपमस्ति राजयक्ष्मोन्मादादौ, तत्रोच्यते, ज्वरादौ त्वविद्यमानत्वासोच्यते ; यत् तु रिष्टं रिष्टाधिकारे ज्वरादीनां स्वप्नरूपं पूर्वरूपं वक्ष्यति-"प्रतैः सह पिबन् मद्यम्" इत्यादिना, तद् रिष्टमेव ॥ १३ ॥
चक्रपाणिः-एकादशरूपाणीतिवचनेन एकादश रूपाण्येव सम्पूर्णराजयक्ष्मणि भवन्तीति दर्शयति ; कासश्वासादयश्च ये एकादशरूपा उदाहरणार्थ व्याख्याताः, न ते प्रतिनियतत्वार्थम् ; तेन, चिकित्सिते वक्ष्यमाणमेकादशरूपचतुष्टयं भिन्नलक्षणं न विरोधि ॥ १४ ॥
For Private and Personal Use Only