________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६४ चरक-संहिता। । ज्वरनिदानम्
इह खलु हेतुर्निमित्तमायतनं कर्ता कारणं प्रत्ययः समुत्थानं निदानमित्यनान्तरम् ॥ २ ॥
गङ्गाधरः-ननु को ज्वरः, किमस्य निदानम् १ इत्याकाङ्क्षायां प्रतिलोम तन्त्रयुक्त्या प्राग ज्वरोपदेशान्निदानमुच्यते। अत्र निदानशब्देन निदान-पूर्वरूप-लिङ्गोपशय-सम्पाप्तयो विवक्षिताः। समास-व्यासाभ्यां तज्ज्ञापयितु समासेन निदानादीनि पञ्च क्रमेणोपदिशति । रोगाणां हुात्पत्तावादो निदान, ततः पूर्वरूपं, ततः सम्माप्तिः, ततो रूपं, तत उपशयः, इत्यत आदौ समासेन निदानमाह-इहेत्यादि । खलुशब्दो वाक्यालद्वारे । इह संसारे हेतुरित्यादिकम् अनर्थान्तरमर्थान्तररहितमेकार्थकम् । भावानामुत्पत्तिसम्पादक इत्येष एक एवार्थी हेषां हेलादीनां पदानाम् । उत्पत्तिस्तु सत्ता, तत्समानाधिकरणं तदनुकूलव्यापारश्च इत्युभयात्मिका। तदुभयार्थस्यैकनिष्ठखादकम्मेकलम् उत्पत्यथेंधातूनाम् । सदिति यतः सा सत्ता द्रव्यगुणकम्मसु । सा तु गुणकम्मेसु सद्भावान गुणो न कर्म। द्रव्याणि नान्तरेण गुणकर्माभ्यां सन्तीति द्रव्याणां गुणतः कम्मेतो वा सद्भावप्रतीत्या द्रव्याणां सत्ता गुणो वा कर्म वेति चेन्न गुण. कम्मसु सद्भावात् । गुणाः सन्ति कर्माणि सन्तीति गुणेषु कम्मसु च सत्तायाः सद्भावात् । तहि चानेकद्रव्यारब्धेष द्रव्येषु द्रव्यं कारणभूतं यत् सा कि सत्ता ? नवं, सामान्यविशेषाभावेन च। सत्तायां हि नास्ति सामान्यं नास्ति विशेषः, कारणभूतद्रव्येषु पुनरस्ति सामान्यं विशेषश्च। अनेकद्रव्यसत्त्वात् तु तेषां द्रव्यखमुक्तं, तथा काव्यगुणानामप्यनेकगुणारब्धत्वेनानेकगुणसद्भावाद गुणसम् उक्तं, तथा काय्यकम्मेणामनेककम्मेभिः सजातीयविजातीयैरारब्धवेनानेककम्मेसत्त्वात् कम्मेवमुक्त, न तु तेषां कार्याणां द्रव्यगुणकम्मेणामारम्भकाणि तत्र ज्वरस्य जनककारणं निदानमधिकृत्य कृतोऽध्यायो ज्वरनिदानम् ; तेन पूर्वरूपादीनामपि शतिहेतूनां तथा चिकित्सासूत्रस्य च ग्रहणम् ॥१॥
चक्रपाणिः-तदेवं ज्वरनिदाने वक्तव्ये सर्वव्याधिसाधारणमेव निदानं वक्तु मुद्यतः सामान्यपूर्बकत्वाद् विशेषस्य, तथाप्युत्पन्नस्थ व्याधेर्लक्षणं युक्तमिति कृत्वा उत्पत्तिहेतु व्यवहारार्थ लक्षणार्थश्च पर्यायैराह-इह खल्विस्यादि। इहेति इह प्रकरणे कारणाभिधायकहेत्वादयो नार्थान्तरे, प्रकरणान्तरेऽर्थान्तरे हेस्वाविशन्दा भवन्तीति दर्शयति ; यथा वक्ष्यति-"हेतुः भक्तकरवाद्' इति, तथा “दशैवायतनानि स्युः" तथा "कर्ता, मन्ता, बोद्धा' इत्यादी, प्रत्ययस्य रूदादी, उत्थानस्य उद्गमनादौ ; हेत्वादिभूरिपर्यायकथनं शास्त्र व्यवहारार्थम्, तथा हेत्वादिशब्दानामर्थान्तरेऽपि वर्तमानत्वे पर्यायान्तरेण समं सामानाधिकरण्यात् कारण एव वृत्तिः
For Private and Personal Use Only