________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
निदानस्थानम् ।
प्रथमोऽध्यायः ।
अथातो ज्वरनिदानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रं यः ॥ १॥ गङ्गाधरः-अथोद्दिष्टक्रमात् इलोकस्थानानन्तरं निदानस्थाने वक्तव्ये सर्वव्याधिप्रधानखात् ज्वरस्य निदानमादावाह-अथात इत्यादि। सब पूर्ववद व्याख्यातव्यम्। ज्वरस्य निदानं ज्वरनिदानमधिकृत्य कृतमध्यायं ज्वरनिदानमध्यायं व्याख्यास्याम इति ॥१॥
चक्रपाणिः--संक्षेपेण हेतुलिङ्गाभिधायकं सूत्रस्थानमनु प्रपब्धेन हेतुलिङ्गाभिधायक निदानस्थानमुच्यते ; हेतुलिङ्गज्ञानपूर्विका हि चिकित्सा साध्वी भवति ; यच चिकित्सासूत्रमात्रमभिधातम्यम्, तपशयान्तर्गतमेवेति कृत्वा ; किंवा हेतुलिङ्गाभिधायकस्यापि चिकित्सार्थत्वात् चिकित्सासूत्रमात्राभिधानमिह ; तत्रापि च शरीरविकारेषु प्रधानत्वात् ज्वरस्यैव निदानमादौ मुच्यते ; तथा च ज्वरः प्रधानमत्रैव "ज्वरस्तु खलु' इत्यादिना वक्ष्यति, तथा च चिकित्सिते च वक्ष्यत्ति,-देहान्द्रयमनस्तापी सर्वरोगाग्रजो बली' इत्यादि ; यत् तु वक्ष्यति,-"पुरा गुल्मोत्पत्तिरभूद' इति, तत्र 'पुरा'-शब्द आयाविर्भावे गुल्मस्य वर्त्तते न तु ज्वरस्य प्राग्भावे ; दक्षाध्वरध्वंसें हि ज्वरपरिगृहीतानां प्राणिनां दिक्षु विद्रावणादिना गुल्मोत्पत्तेरुक्तत्वात्। निदानं कारणमिहोच्यते, तच्चेह व्याधिजनक च्याधिबोधकञ्च सामान्येनोच्यते; तत्र व्याधिजनकं निदानं हेतुः, व्याधिबोधकच कारणं निदानपूर्वरूपरूपोपशयसम्प्राप्तिरूपम् ; तत्र हेतुरूपं निदानं जनकञ्च भवति, व्याधेर्योधक भवति ; अत एव प्रथमम्, "इह खलु' इत्यादिना हेतुमभिधाय “तस्योपलब्धिर्निदानम् इत्यादिना पुनर्हेतुरप्युक्तः ; ज्वरस्य निदानं ज्वरनिदानम्। किंवा निदानशब्दो जनककारणवचन एवं ;
For Private and Personal Use Only