________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः निदानस्थानम् ।
१३४५ तस्मात् पुरुषो मतिमानात्मनः शरीरमनुरक्षन शुक्रमनुरक्षेत् । परा हेाषा फलनिर्वृत्तिराहारस्येति ॥७॥
भवति चात्र। आहारस्य परं धाम शुक्र तट रक्ष्यमात्मनः।
क्षयो ह्यस्य बहून रोगान् मरणं वा नियच्छति ॥८॥ -विषमाशनं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः। यदा पुरुषः पानाशनभक्ष्यलेह्योपयोगान् प्रकृतिकरणराशिसंयोगदेशकालोपयोगसंस्थोपशयविषमान् उपसेवते, तदा तस्य तेभ्यो वातपित्तश्लेष्माणो वैषम्यमापद्यन्ते। ते विषमाः शरीरमनुसृत्य यदा स्रोतसां मुखानि प्रतिवा-वतिष्ठन्ते, तदा जन्तुर्यदयदाहारजातमाहरति तत्तन्मूत्रपुरीषमेवोपजायते भूयिष्ठं नान्यस्तथा शरीरधातुः, स पुरीषोपज्वरः कासः श्वासः स्वरभङ्गः प्रतिश्यायश्चेत्येतान्येकादश रूपाणि क्षयप्रभवाणि । परा हेघषेत्यादि। एपा शुक्ररूपा। परं धामेति चरमस्थानम् ॥ ७८॥
गङ्गाधरः-क्रमिकखाद्विषमाशनस्य शोषायतनवं विवरीतुमाह-विषमाशनमित्यादि । यदेत्यादि । पानं पेयद्रव्यम्, अशनमन्नादिरूपमुपकार्यद्रव्यम, भक्ष्यमन्नादुरपकरणरूपपूपपिष्टकादि द्रव्यम्, लेहंघनक्षीरादिकम, तेषामुपयोगान् पानादिरूपे प्रयोगान् प्रकृत्यादिभिराहारविधिविशेषायतनै विषमान् यथावदरूपान्। वातपित्तश्लेष्माण इत्यनेन युगपत्रिदोषकोपो विषमाशनेन ख्यापितः। वैषम्यमिति वृद्धिम्। ते विषमा इति। ते वातपित्तकफा वृद्धाः स्रोतसां रसरक्तादिधातुवहानामभिमुखानि भूयिष्ठं मूत्रपुरीषं रसश्चात्यल्पः नान्यः शोणितादिः अनुसर्पतीत्यर्थः ; परा फलनिवृत्तिरिति श्रेष्ठा आहारफलसम्पत्तिरित्यर्थः। परं धामोत्कृष्टसारम् ; उत्कृष्टत्वञ्च शुक्रस्यातिप्रसादरूपत्वात् ; एतच्च शोषकारणेषु केवलशुमक्षयोपसंहरणं प्राधान्यादस्य शोषहेतुभावादिति बोद्धव्यम् ; रुक्षाद्यन्नपानसेवाजनितोऽपि रक्तादिक्षयो राजयक्ष्मकरणत्वेनोक्तः ॥ ८॥
चक्रपाणिः-प्रकृतिकरणादयो रसविमाने प्रपञ्चनीयाः; अत्र च 'उपशय'शब्देन, उपयोक्ता यो रसविमाने वक्तव्यः, स एव गृह्यते ; यतः, तत्रोक्तम्--"उपयोक्ता पुनर्यस्तमाहारमाहरति,
For Private and Personal Use Only