________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४४ चरक-संहिता।
(शोपनिदानम् अथास्य शुक्रक्षयात् शोणितप्रवर्त्तमानत्वाच्च सन्धयः शिथिलीभवन्ति, रौक्ष्यमपि चास्योपजायते, भूयः शरीरं दौर्बल्यमाविशतीति वायुःप्रकोपमापद्यते । स प्रकुपितोऽरसिकं * शरीरमनुसर्पन उदीय॑ + श्लेष्मपित्ते, परिशोषयति मांसशोणिते, प्रच्यावयति श्लेष्मपित्ते, संरुजति पायें, चावगृह्णाति अंसौ, कण्ठमुद्ध्वंसयति, शिरः श्लेष्माणमुपक्लिश्य परिपूरयति श्लेष्मणा, सन्धींश्च प्रपीड़यन् करोत्यङ्गमर्दारोचकाविपाकान्. पित्तश्लेष्मोत्क्लेशात् प्रतिलोमगत्वाच्च वायुवरं कासं श्वासं स्वरभेदं प्रतिश्यायञ्चोपजनयति। स कासप्रसङ्गादुरसि क्षते शोणितं निष्ठीवति शोणितगमनाच्चास्य दौर्बल्यमुपजायते । ततः सोऽप्युपशोषणरेतैरुपद्रवरुपद्रुतः शनैः शनैः उपशुष्यति ।
रूपम्। अथास्येत्यादिना द्विविधक्षीणस्य रसक्षय-शुक्रक्षयाभ्यां राजयक्ष्मणः सम्प्राप्तिमाह-अथास्येत्यादि। अथ अतिमात्रशोकचिन्तादिभिः हृदयस्थरसक्षये तथातिमहर्षादित्यादुधक्तरूपेणातिमैथुनात् शुक्रक्षये वा तत्क्षयद्वयस्याप्रतिकारादनन्तरमस्य रसक्षयजक्षीणरक्तादिधातुकस्य शुक्रक्षयनक्षीणरसरक्तादिधातुकस्य वा पुरुषस्य शुक्रक्षयात् । अतिमैथुनेन क्षीणशुक्रस्य पुनमथुनमापद्यमानस्य शुक्रक्षयादेव शुक्रच्यवनं न भूला शोणितप्रवत्तेमानसाच्च, सन्धयः शरीरस्य सर्वसन्धयः, भूयो वाहुलेन । स प्रकुपित इत्यादि। परिशोपयतीत्यादि। मांसशोणितशोषः श्लेष्मपित्तच्यवनश्च लिङ्गतया न गण्यं तत्कार्याणामेव पावरुजादीनां तल्लिङ्गखादतः पाश्वरुजा अंसग्रहः कण्ठोदध्वंसः शिरसः परिपूर्णखेन शूलं सन्धिप्रपीड़नाङ्गमई अरोचकोऽविपाकः
यावत् ; शरीरं कर्मभूतं दौर्बल्यं कत्तु भूतमाविशतीत्यादि योजना ; वशिकमिति शून्यं शुक्रशोणितक्षयात् कृतमित्यर्थः । एतच्च हेतुगर्भविशेषणम् ; एतेन, यस्मादशिकं शरीरम, तस्मात्
* वशिकमित्यन्यः पाठः। । 'उदीर्य श्लेष्मपित्ते' इति क्वचित् न दृश्यते । * इतः परं 'स इत्यादि-उपजायते' इत्यन्तः केषुचित् ग्रन्थान्तरेषु न दृश्यते।
For Private and Personal Use Only