________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः ]
निदानस्थानम् । १३४३ यद। वा पुरुषोऽतिप्रहर्षादतिप्रसक्तभावात् स्त्रीष्वतिप्रयोगमारभते, तस्यातिप्रयोगाद रेतः क्षयमेति। क्षयमपि चोपगच्छति रेतसि मनः स्त्रीभ्यो नैवास्य निवत्तते, + तस्य चातिप्रणीतसङ्कल्पस्य मैथुनमापद्यमानस्य न शुक्र प्रवर्तते उपक्षीणरेतस्त्वात्। अथास्य वायुायच्छमानस्यैव धमनोरनुप्रविश्य शोणितवाहिनीस्ताभ्यः शोणितं प्रच्यावयति। तत् शुक्रक्षयादस्य पुनः शुक्रमार्गेण शोणितं प्रवर्तते वातानुस्मृतलिङ्गम् ।
प्रतिलोमतः क्षयमाह-यदा वेत्यादि। प्रसक्तभावः प्रमातिशयनात्यासक्तचित्तः सन् अतिप्रयोगं मैथुनमतिशयेनारभते। अस्य क्षीणशुक्रस्य पुसः स्त्रीभ्यो मैथने मनो न निवत्ततेऽर्थात् पुनरपि स्त्रीषु मैथुनाय प्रवत्तते। तस्य क्षीणशुक्रपुरुषस्यातिप्रणीतसङ्कल्पस्य स्त्रीष्वतिप्रणयशीलतया सङ्कल्पो मैथुनाय मनःप्रवर्त्तनं यस्य तस्य तथा। तस्य चातीत्यादि। तथाभूतस्य मैथुनमापद्यमानस्य क्रियमाणमैथुनस्य शुक्रच्यवनकाले शुक्रं न प्रात्तते न क्षरति उपक्षोणरेतस्वात्। ननु तदा किं भवतीत्यत आह–अथास्येत्यादि। अथ क्षीणशुक्रस्य क्रियमाणमैथुनस्य शुक्रक्षयात् शुक्रस्याप्रवर्त्तनानन्तरं यस्य क्षीणशुक्रस्य मैथुनं कुर्वतः पुरुषस्य व्यायच्छमानस्य शुक्रच्यवनाथ मैथनकरणात्मक व्यायाम कुव्वतो वायुः प्रद्धः शोणितवाहिनीधेमनीरनुपविश्य ताभ्यः शोणितवाहिनीभ्यो धमनीभ्यः शोणितं प्रच्यावयति। नन्वेवं प्रच्युतं शोणितं किं लिङ्गमूले वस्तौ वा तिष्ठति वहिश्च्यवते वा इत्यत आह-तच्छुक्रक्षयादिति । तत् प्रच्युतं शोणितं शुक्रक्षयादतोः शुक्रं विना शुक्रमागेण शुक्रक्षरणस्रोतसा प्रवत्तेते च्यवते, तच्च च्युतं शोणितं वातानुसृतलिङ्गं वातानुगतचिह्न रुक्षादिलक्षणेन। सम्प्रति शोषेषु क्षयकारणेषु प्रायः शोषजनकत्वेन प्रधान शुक्रक्षयं शोषकारणं 'यदा वा' इत्यादिना प्राह ; अतिप्रणीतसङ्कल्पस्येति अतिमहता प्रयत्नेन कृतध्वजोच्छ्रायस्य; न्यायच्छमानस्येति व्यायाममाचरतः ; वातानुसृतलिङ्गमिति वातलिङ्गपुक्त दुश्वातलिङ्गयुक्तमिति * प्रसङ्गमिति वा पाठः।
इतः परम् अतिवर्तते इत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only