SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४२ चरक-संहिता। । शोषनिदानम् भवति चात्र। सर्वमन्यत् परित्यज्य शरीरमनुपालयेत् । तदभावे हि भावानां सर्वाभावः शरीरिणाम् ॥ ६॥ क्षयः शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः । यदा पुरुषोऽतिमात्रंशोकचिन्तापरिगतहृदयो भवतीयॊत्कण्ठाभयक्रोधादिभिर्वा समाविश्यते, कृशो वा सन् रुवान्नपानसेवी भवति, दुर्बलप्रकृतिरनाहारो वाप्यल्पाहारो वा भवति, तदा तस्य हृदयस्थायी रसः चयमुपैति, स तस्योपक्षयात् शोषं प्राप्नोति, अप्रतीकाराच्चानुबध्यते यक्ष्मणा यथोपदेक्ष्यमाणेन। ___ गङ्गाधरः-भवति चात्रेत्यादि । सर्वमन्यदिति आत्मशरीरयोगकरणे क्षेमं यद् यत् कर्म तत् सर्वम् ॥६॥ गङ्गाधरः-क्रमिकत्वात् क्षयस्य शोषायतनवं विवरीतुमाह-क्षय इत्यादि। यदेत्यादि । हृदयं मनस्तात्स्थ्यात्। दुवैलप्रकृतिः आ जन्मन एव दुब्बलस्वभावः। स चेदनाहारोऽल्पाहारो वा भवति । स पुरुपस्तस्य हृदयस्थरसस्य कारणस्य उपक्षयादुत्तरोत्तरधातुशोणितादीनां कार्याणां पुष्ट्यभावात् शोषं देहशोषं प्राप्नोति। एतेनानुलोमधातुशोपः प्रदर्शितः। अप्रतीकाराचानुबध्यते यक्ष्मणा यथोपदेक्ष्यमाणेनेतिवचनेन। साहसादिजनितैजम्भादिभिः शरीरोपशोषणविना शरीरशोषे शोषमात्रसंशा न तु राजयक्ष्मा न वा तत्पर्यायश्च शोष इति ख्यापितम् । इति। शरीरस्यायत्पत्ती धर्माधर्मसहायो भोक्ता सुखदुःखानामात्मा मूलं कारणमित्यर्थः ; "मूल शब्दश्चायं भावप्रधानः ; तेन शरीरमूलत्वं यस्यात्मनः ‘शरीरमूलः' इति पुंलिङ्गनिर्देश उपपन्नः। सर्वाभाव इति धर्मादिचतुर्वर्गाभाव इत्यर्थः ॥४-६॥ चक्रपाणिः हृदयस्थायी रस इति धातुस्वरूपोऽन्नरसपोषक इत्यर्थः ; अन्ये तु, हृदयस्थायी रस इत्योजो ब्रु वते ; यथोपदेक्ष्यमाणरूपेणेति “सन्धयः शिथिलीभवन्ति” इत्यादिग्रन्थवक्ष्यमाण For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy