SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ट अध्यायः निदानस्थानम्। १३४१ वा निरुणयागतान् वातमूत्रपुरीषवेगान, ततस्तस्य सन्धारणाद वायुः प्रकोपमापद्यते। स प्रकुपितः पित्तश्लेष्माणौ समुदीर्योर्द्ध मधस्तिय्यक च विहरति । ततश्च अंशविशेषेण पूर्ववत् शरीरावयवविशेष प्रविश्य • शूलं जनयति, भिनत्ति पुरीषमुच्छोषयति वा पार्वे चातिरुजति अंसाववमृद्गाति कण्ठमुरश्चावधमति शिरश्चोपहन्ति कासं श्वासं ज्वरं स्वरभेदं प्रतिश्यायञ्चोपजनयति । ततः स उपशोषणैः एतैरुपद्रवरुपद्र तः शनैः शनैरुपशष्यति । तस्मात् पुरुषो मति. मानात्मनः शरीरेष्वेवं योगक्षेमकरेषु प्रयतेत विशेषण । शरीरं ह्यस्य मूलम्, शरीरमूलश्च पुरुषो भवतीति ॥ ५॥ उच्चावचैर्यानैर्वा गच्छन् पुरुषो भयादितो यदाभ्यागतान् वातादिवेगान् निरुणद्धीत्यन्वयः। प्रसङ्गादिति राजादिभिः समागमात् । तत इत्यादि। भिनत्तीति पित्तसम्बन्धाधिक्येन रोक्ष्यगुणेन कुपितो वायुश्चलखेन पुरीषं भिनत्ति। अल्पपित्तसम्बन्धे तथा रुक्षवगुणेन कुपितो वायुः पुरीषमुच्छोषयति। कण्ठावधमनं कण्ठोदध्वंसः। उरोऽवधमनं वक्षोरुजा। शिरउपघातः शिरोरुजा शिरसि कफपूर्णवेन। ततः स इत्यादि सर्वं पूर्वग्राख्येयम् । योगक्षेमकरेषु यः कम्मेभिः शरीरात्मयोगः क्रियते तत्सर्वेषु कर्मसु आत्मनः शरीरेष्वेव योगकरेषु प्रयतेत इत्यर्थः ॥ ५॥ भयादित्यादि राजसमीपादिषु यथायोग्यतया बोद्धव्यम्। योगेन ये क्षेमकरास्ते योगक्षेमकराः, ते चेह मूत्रपुरीषाविधारणादयः ; विशेषेणेतिवचनात् शरीरेष्वेव विशेषेण यत्नं कुर्यात् मानसयोगक्षेमापेक्षयेति दर्शयति ; आत्मन इति पदं परशरीरयोगक्षेमापेक्षया स्वशरीरयोगक्षेमकरणस्योपादेयतादर्शनार्थम् । अथ कथं मानसयोगक्षेमापेक्षया तथा परशरीरयोगक्षेमापेक्षया खशरीरयोगक्षेमः श्रेष्ठ इत्याह-शरीरमित्यादि। स्वशरीरे हुअपहते परशरीरोपकारस्तथाध्यास्मिकशुभचिन्ता च व्याकुला भवतीति भावः ; किंवा योगाः शरीरस्य बलवर्णावस्कर्षयोगाः, क्षेमाश्चानागताबाधप्रतिषेधास्तेषु ; ननु यदेववम् आध्यात्मिकेऽपि भावे शरीरं मूलम्, तत् किं पुरुषोऽप्रधानमेव ; नेत्याह-शरीरमूलश्च पुरुष * पित्तश्लेष्माणावित्यादि-प्रविश्येत्यन्तः पाठो श्यते। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy