________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४० चरक-संहिता।
शोषनिदानम् भवति चात्र। साहसं वर्जयेत् कर्म रक्षन् जीवितमात्मनः। जीवन् हि पुरुषस्त्विष्टं कर्मणः फलमश्नुते ॥ ४ ॥
अथ सन्धारणं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः । यदा पुरुषो राजसमीपे भर्त्तः समीपे वा गुरोर्वा पादमूलेऽन्यतमं सतां वा समाज स्त्रीमध्यं वानुप्रविश्य, यानैः वाप्युच्चावचैर्गच्छन भयात् प्रसङ्गात् ह्रीमत्त्वाद् घृणित्वाद तवज्जनमुपदिशति तस्मादित्यादि । तस्मादुक्तरूपेण साहसिककर्म, जम्भाङ्गमद्देज्वरादीनां देहोपशोषकराणां व्याधीनामुत्पत्तिहेतुखात् । तदनुरूपाणीति बलानुरूपाणि न तु बलातिक्रमकराणि । ननु कुतो बलानुरूपाणीत्यत आहबलसमाधानं हि शरीरमिति बलेन सम्यगाधीयने आधाय्यते यत् तत् तथा। ननु कुतः शरीराधारणं बलेनेष्टमित्यत आह-शरीरमूलइचेत्यादि । पुरुष इति राशिपुरुषो न खात्ममात्रम् । राशिपुरुषस्य हि शरीरं मूलं न खात्मनः । शरीरश्च विना न राशिपुरुषस्थितिः शरीराभावे मरणप्रसङ्गात् ॥३॥
गङ्गाधरः-ननु वलानुरूपाणि काप्यारभमाणानां साहसिककर्माणि किं न कार्याणि कार्याणि वेत्यत आह-भवतीत्यादि। साहसं वज्जेयेदित्यादि। ननु कुतो जीवितं रक्ष्यं मुखापि पुननिष्यते जातोऽपि पुनमरिष्यतीत्येवं चक्रवभ्रमणं स्वाभाविकम् एवेत्यत आहजीवन्नित्यादि। मृतो हि पुरुषोऽस्मिन् लोके कृतकर्मणः फलमुपभुक्त जीवंस्तु पुरुषोऽस्मिन् लोके कर्म कुरुते तत्फलश्चाश्नुते इति जीवनस्य प्राधान्यं बोध्यम् ॥४॥
गङ्गाधरः-अथक्रमप्राप्तमुक्तं सन्धारणं शोषायतनं व्याचष्टे-अथ सन्धारणमित्यादि। तत्र साहसमित्यादौ यत् तत्रेतिपदं तस्यानेनान्वयः । पुरुष इति राशिपुरुषः। भत्तु रिति दासादिप्रतिपालकस्य समीपे दासादिः पुरुषः, अन्यतममेषामन्यतमं समाज सतां वा समाज प्रविश्य, भयादितः चक्रपाणिः-समाजमिति सभाम् ; उच्चावचैरिति उच्चनीचैः; अभियानिति गच्छन् ; * अन्यतममित्यत्र दूपतसभमिति द्वितीयः पाठः ।
For Private and Personal Use Only