________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
निदानस्थानम्। १३३६ उपशोषणैरेतैरुपद् तः शनैः शनैरेवोपशुष्यति। तस्मात् पुरुषो मतिमान् बलमात्मनः समीक्ष्य तदनुरूपाणि सर्वकर्माणि आरभेत कर्तुम् । बलसमाधानं हि शरीरम्, शरीरमूलश्च पुरुष इति ॥३॥ त्रयोदशोपद्रवाः साहसप्रभवाः साहसिकं पुरुषं स्पृशन्ति। नन्वते साहसप्रभवा उपद्रवाः किं समुदाय एव शोष उच्यते, इत्यत आह-ततः स इत्यादि । ततः साहसिकोपद्रवजन्मानन्तरं स साहसिकोपद्रववान् पुरुष एतैरुक्तम्भागमर्दज्वरादिभिः साहसिकोपवैरुषशोषणैः शरीरशोषकरैरुपद्र तः पीड़ितः सन् शनैः शनैरुपशुष्यति शरीरशोषमापद्यते । एवमत ऊर्द्ध वक्ष्यमाणप्रकारेण वेगसन्धारणक्षयविषमाशनोत्थशिरःशूलादिपावरुजादिशिरःशूलादिभिः उपशोषणै रसादिदेहधातुशोषात् शुष्यति । इत्येकादशरूपवान राजयक्ष्मा सम्पूर्ण बलत्रिदोषतः स्यात् । दोषवलानुरूपेणैव व्याधिषु लिङ्गाधिक्याल्पखसम्भवात् साहसादिचतुःकारणतस्त्वेकविधैकादशादिरूपसद्भावाचात्र स्वयमेव पूर्णबलदोषाभिप्रायेण शिरसः परिपूर्णत्वं कासः श्वासः स्वरभेदः श्लेष्मणश्छईनं शोणितनिष्ठीवनं पार्श्वसंरोजनमंसावमौ ज्वरोऽतिसारोऽरोचकश्चेत्येतानि वक्ष्यन्ते। चिकित्सिते तु पूर्णमध्यावरवलदोषाभिप्रायेणैकादश षट् त्रीणि च रूपाणि वक्ष्यन्ते ; तद् यथा-कासोऽसतापो वैस्वयं ज्वरः पार्श्वशिरो. रुजा। छद्दनं रक्तकफयोः श्वासो वच्चोगदोऽरुचिः। रूपाण्येकादशैतानि यक्ष्मिणः पडिमानि तु। कासो ज्वरः पावशूलं स्वरवर्बोगदारुचिः। सबै र?स्त्रिभिर्वापि लिङ्गैमींसवलक्षये। युक्तो वय॑श्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा। इत्यादि। सुश्रुतेऽपि-"भक्तद्वषो ज्वरः श्वासः कासः शोणितदर्शनम्। स्वरभेदश्च जायन्ते षडूरूपे राजयक्ष्मणि। खरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपाश्वयोः। ज्वरो दाहोऽतिसारश्च पित्ताद रक्तस्य चागमः। शिरसः परिपूर्णखमभक्तच्छन्द एव च । कासः कण्ठस्य चोदध्वंसो विशे यः कफकोपतः। एकादशभिरेतैर्वा षभिर्वापि समन्वितम् । कासातीसारपाश्र्वार्त्तिस्वरभेदारुचिज्वरैः। त्रिभिर्वा पीड़ितं लिङ्गैः कासश्वासासृगामयैः। जह्यात् शोषादितं जन्तुमिच्छन् सुविपुलं यशः ॥” इति। साहसिककम्मे भिरेवं दोषात् धार्य्यत इति बलसमाधानं शरीरम् ; शरीरमूलश्च पुरुष इति संयोगपुरुष इत्यर्थः ॥३॥
For Private and Personal Use Only