________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३८
चरक-संहिता। { शोपनिदानम् भिद्यते। यस्तु हृदयमाविशति तेन रोगा भवन्त्युरस्याः। यो रसनां तेनास्यारोचकश्च। यः कण्ठमभिप्रपद्यते कण्ठस्तेनोदध्वंसते स्वरश्चावसीदति। यः प्राणवहानि स्रोतांस्यन्वेति तैन श्वासः प्रतिश्यायश्च जायते। यः शिरस्यवतिष्ठते शिरस्तेनोपहन्यते। ततः क्षणनाच्चैवोरसो विषमगतित्वाच्च वायोः कण्ठस्य चोध्वंसनात् कासः सततमस्य संजायते। स कासप्रसङ्गादुरसि क्षते सशोणितं निष्ठीवति शोणितगमनाचास्य दौर्गन्ध्यमुपजायते।
एवमेते साहसप्रभवाः साहसिकमुपद्रवाः स्पृशन्ति, ततः स
चिकित्सिते, वर्षोभेदं गुदे स्थित इति । उरस्या इति वक्षोरुजा बढ्यः । वक्ष्यते चोरःस्थश्चोरसो रुजमिति। अरोचकः कण्ठहृदयस्थदोषदुष्टेर्भवतीति हृदयगतांशेनापि अरोचकश्च । कण्ठमभिप्रपद्यते योऽशः कण्ठस्तेन कण्ठस्थेन त्रिदोषांशेन उद्ध्वंसते उत्कासेन युज्यते । स्वरश्वावसीदति स्वरभङ्गो भवति अरोचकश्च भवति चकारात्। प्राणवहस्रोतःस्थेन तदोषांशेन श्वासः प्रतिश्यायश्च भवति । श्वासप्रतिश्याययोः सम्प्राप्तौ प्राणवहस्रोतोगतदोषजन्यत्वेनोक्तखात् । शिर उपहन्यते शिरःशूलं भवति । क्षणनादिति उरसि क्षतकरणात् तत्रस्थवायोश्च विषमगतिखाच कण्ठस्य चोदध्वंसनाच्च प्राक् कासात् गलकण्डूयनाकरणात् कासः संजायते। स पुरुषः पुनस्तत्कासप्रसङ्गात् पूर्व क्षते वक्षसि पुनःक्षते सति शोणितं निष्ठीवति मुखेन उद्गिरति । इत्येवंदिशा सव्वेस्मिन्नेव व्याधौ लिङ्गोत्पत्तौ दोषांशप्रवेशो व्याख्यातव्यः। तथाच-ये ये रोगा ययाधिलिङ्गतया निश्यिन्ते तेषां तेषां व्याधीनां सम्माप्तौ दोषस्य यदयत् स्थानसंश्रयदृष्यसंयोगादयो दृश्यन्ते तद्वप्राध्यारम्भकतदोषांशस्य तत्तत्स्थानसंश्रयदृष्यसंयोगादिवशात् ते रोगास्तद्ववालिङ्गरूपेण भवन्तीति बोध्यम् ।
एवमेते इति। जम्भाङ्गमर्दो ज्वरो वच्चोंभेदो वक्षोरुक् अरोचकः कण्ठोदध्वंसः स्वरभङ्गः श्वासः प्रतिश्यायः शिरःशूलं कासो रक्तनिष्ठीवनमित्येते
भामाशयगतत्वेन चोरस्यरोगकरणादरसोऽप्यामाशयप्रत्यासन्नत्वमुक्तम् ; बलेन सम्यगाधीयते
For Private and Personal Use Only