________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः ।
निदानस्थानम्।
१३३७ महता वा धनुषा व्यायच्छति, जल्पति चाप्यतिमात्रम्, अतिमात्रं वा भारमुबहति, अप्सु वा प्लवते चातिदूरम्, उत्सादनपदाघातने वातिप्रगाढ़मुपसेवते अतिविप्रकृष्टं वाध्वानं,द्रुतमभिपतति, अभिहन्यते वान्यद्वा किञ्चिदेवंविधं विषममतिमात्रं वा व्यायामजातमारभते, तस्यातिमात्रेण कर्मणोरः क्षण्यते । तस्योरः क्षतमुपप्नवते वायुः । स तत्रावस्थितः श्लेष्माणमुरःस्थम् उपसंगृह्य पित्तश्च दूषयन * विहरत्यूद्ध मधश्चितर्यक् च।
तस्य योऽशः शरीरसन्धीन आविशति तेनास्य जम्भाङ्गमदों ज्वरश्ोपजायते। यस्त्वामाशयमभ्युपैति तेनास्य च व? पुरुषेण सह युद्धं करोति । अप्सु अतिदूरं प्लवते सन्तरति स्रोतोऽभिमुखं वेति वाच्यम् । उत्सादनमुद्वत्तेनं, पदाघातनं पद्भ्यामाहननम्, अतिप्रगाढ़म् अतिशयमतिप्रकृष्टं वा यथा स्यात् तथा सेवते यः। यो वाध्वानं पन्थानं वातिप्रगाढमतिप्रकृष्ट वा सेवते। यो वा द्रुतमभिपतति विषमोच्चतः। यो वाभिहन्यते शिलाकाष्ठाश्मादिभिः। अन्यद्वा तूर्ण विषमनृत्यादिकम्, तस्य निरुक्तविषमव्यायामजातं कुव्वतः तेनातिमात्रेण व्यायामरूपेण कम्मणा उरः क्षण्यते वक्षःक्षतं भवति । तस्योरः क्षतं क्षतं वक्षो वायुस्तायामतो वृद्धो वायुरुपप्लवते उपगच्छति। स इति व्यायामकुपितो वायुस्तत्र क्षतवक्षसि उरःस्थं श्लेष्माणं पित्तञ्चोपसंगृह्य दूषयन ऊधिस्तिय्यंग विहरति। इति त्रिदोषकोपः ख्यापितः।
तस्येत्यादि। तस्येति पित्तश्लेष्मसहितस्य वातस्य योऽशो यो भाग इत्यर्थात त्रयाणां दोषाणां मिलितानां यो भागः शरीरसन्धीन सर्वान एवाविशति बहुवचनाधिस्तिय्यग्गमनाच्च। तेन मिलितत्रिदोषीयांशेन जम्भाङ्गमद्देज्वरा भवन्ति वातप्राबल्यात्। तत्र जृम्भा हनुसन्धिस्थेनांशेन । अङ्गमद्देज्वरौ सव्वसन्धिस्थेनांशेन। यस्खामाशयमित्युत्तरगुदं, वक्ष्यते हि
चक्रपाणिः-पदाघातनं पद्यामुद्वर्त्तनम् ; अतिप्रकृष्टमित्यति दूरम्। उरः क्षतमुपप्लवते प्राप्नोतीत्यर्थः ; उरःस्थमिति स्वभावादेवोरःस्थम् ; उरस्या इत्युरोगता हृवशूलादयः ; * उपसंसृज्य शोषयन् इति पाठश्चक्रसम्मतः ।
१६८
For Private and Personal Use Only