________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातः शोपनिदानं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥ १॥ इह खलु चत्वारि शोषस्यायतनानि भवन्ति । तद् यथा--- साहसं सन्धारणं क्षयो विषमाशनमिति ॥ २ ॥
तत्र साहसं शोषस्यायतनमिति यदुक्तं, तदनुव्याख्यास्यामः। यदा पुरुषो दुर्बलः सन् बलवता सह विगृह्णाति,
गङ्गाधरः-अथो एकद्वित्रिदोषोल्वणदोपिकं कुष्ठमुक्त्वा त्रैदोषिकत्वसाधम्येणेककार्यखसंगत्या कुष्ठनिदानानन्तरं शोपनिदानमाह---अथात इत्यादि ॥१॥
गङ्गाधरः-इहेत्यादि। चखारि अत ऊर्द्ध वक्ष्यमाणसाहसादीनि । शोषस्य रसादीनां शारीरधातूनां शोषेण शरीरशोपणात् शोपाख्यस्य। सुश्रुतेऽप्युक्तं संशोषणाद रसादीनां शोष इत्यभिधीयते। क्रियाक्षयकरखाच क्षय इत्युच्यते पुनः। राक्षश्चन्द्रमसो यस्मादभूदेव किलामयः। तस्मात् तं राजयक्ष्मेति केचिदाहुमनीषिणः । इति । आयतनानि निदानानि । चखारीति विवृणोति, तद यथेत्यादि। साहसमिति दुर्बलानां बलवता सह विग्रहादिर्व्यायामः साहसम्। सुश्रुतेऽप्युक्तं--क्षयाद् वेगपतीघाताद्वयायामाद्विपमाशनादिति। तेन च। सन्धारणं पुरीपादीनां वेगधारणं नवेगानधारणीयोक्तम् । क्षयो रसशुक्रयोः क्षयः। पदार्थाख्यतन्त्रयुक्त्या निदाने तदर्शनात् । विषममशनं विषमाशनम् अर्थात् शोषस्यायतनमित्यर्थः ॥२॥
गङ्गाधरः--साहसादिप्रत्येकनिदानतः शोषं दर्शयितुमाह-तत्रेत्यादि। तत्र साहसादिषु चतुषु शोपस्यायतनेषु मध्ये । यदत्यादि। बलवतेति वलवत्
चक्रपाणिः-ज्वरनिदानोक्तसम्बन्धाद्राजयक्ष्मनिदानमुच्यते। आयतनानीति कारणानि ; संख्येयसाहसादिनिर्देशादेव संख्यायां लब्धायां 'चत्वारि' इति पुनर्वचनं साहसादीनामवान्तरबलवद्विग्रहादिभेदेऽप्येकजातीयताप्रतिपादनार्थम् ॥ १॥२॥
For Private and Personal Use Only