________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
निदानस्थानम् ।
१३३५ तत्र श्लोकः। संख्या द्रव्याणि दोषाश्च हेतवः पूर्वलक्षणम् । रूपाण्युपद्रवाश्चोक्ताः कुष्ठानां कौष्ठिके पृथक् ॥ १७॥
इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते निदानस्थाने
कुष्ठनिदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्र श्लोका इत्यादि। कौष्ठिके कुष्ठनिदानाध्याये। अध्यायं समापयति-अग्नीत्यादि ॥१७॥
इति श्रीगङ्गाधरकविराजकविरत्न विरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानजल्पे पश्चमाध्यायकुष्ठनिदानजल्पाखया
पञ्चमी शाखा ॥ ५ ॥
किञ्चित्कालमिति असाध्यव्याधिकालम् ; मृत एवेति मरणोपकण्ठगतः ; अवबुध्यत इत्यत्र साध्यब्याध्यपेक्षाफलं मृत्युमिति शेषः ॥ १५-१७ ॥
इति घरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थाम
व्याख्यायां कुष्ठनिदानं नाम पञ्चमोऽध्यायः ॥ ५॥
For Private and Personal Use Only