SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एम अध्यायः निदानस्थानम् । १३३३ अचिकित्रस्यमानानि। अपचारतो वा दोषैरभिष्यन्दमानानि असाध्यतामुपयान्ति। साध्यानामपि झपेक्ष्यमाणानामेषां त्वङ्मांस-शोणित-लसीका-कोथ-क्लेद-संस्वेदजाः क्रिमयोऽभिमूच्छन्ति। ते भक्षयन्तस्त्वगादीन् दोषान् पुनर्दूषयन्तः इमानुपद्रवान् पृथक् पृथगुत्यादयन्ति। तत्र वातः श्यावारुणवणं परुषतामपि च रौक्ष्यशलशोषतोदवेपथुझसङ्कोचहर्षायासस्तम्भसुप्तिभेदभङ्गान्, पित्तं पुनर्दाहस्वेदवलेदकोथस्रावपाकरागान, श्लेष्मा त्वस्य शैत्यश्वैत्यकण्ड्रस्थैय्यंगौरवोत्सेधस्नेहोपलेपान् । क्रिमयस्तु त्वगादींश्चतुरः सिराः स्नायूनि चास्थीन्यपि च तरुणानि खादन्ति ; अस्याञ्चैवावस्थायां कुष्ठिनमुपद्रवाः स्पृशन्ति। तद् यथा---प्रस्त्रवणमङ्गभेदः पतनान्यगावयवानां साध्यताम् अतिवर्तते इत्यत आह-साध्यानि हीत्यादि। ननु कि केवलमचिकित्सया वापचारतो वा दोपै? ?ः पुनरभिष्यन्दमानानि भूखा साध्यतामतिवत्तन्ते उतान्यथा वा इत्यत आह-साध्यानामित्यादि । ते इति क्रिमयः । पृथक् पृथक् इति दोषाः, क्रिमयश्च। तत्र वातः इत्यादि । तत्र क्रिमिकुपितवातपित्तकफक्रिमिषु मध्ये वातः क्रिमिभिः पुनदू पित एवं पित्तश्लेप्माणावपि वोध्यो। श्यावारुणखादीनाद अङ्गानामुत्पादयतीत्यर्थः । अस्यामिति क्रिमिदुषितवातादिक्रिमिकृतोक्तोपद्रवशालितायामवस्थायां पुनरिमे चोपद्रवाः कुष्ठवतां भवन्ति । प्रस्रवण गलितत्वेन स्रावस्रवणम् । अङ्गभेदोऽङ्गभङ्गः । पतनान्यगावय दर्शयति ; अपचारतो वेति उत्पन्नेऽपि कुष्ट निदानं सेवन्ते । अभिप्यन्दमानानीत्यापूर्यमाणानि । + वेपवित्यत्र व्यथेति वा पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy