________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३२
चरक-संहिता। (कुष्टनिदानम् भासानि बहून्यल्पवेदनानि अल्पकण्डदाहपूयलसीकानि लघुसमुत्थानानि अल्पभेदक्रिमीणि अलाबपुष्पसङ्काशानि सिध्मकुष्ठानीति विद्यात् ॥ १३ ॥ ___काकणन्तिकावर्णानि आदौ पश्चात् तु सर्वकुष्ठसमन्वितानि पापीयसां सर्वकुष्ठलिङ्गसम्भवेनानेकवर्णानि काकणकानीति विद्यात् ॥ १४ ॥ .. तान्यसाध्यानि, साध्यानि पुनरितराणि भवन्ति, तत्र यदसाध्यं तदसाध्यतां नातिवर्तते। साध्यं पुनः किश्चित् साध्य ताम् अतिवत्तते कदाचिदपचारात् । साध्यानि हि षट् काकणवर्जानि ऽघनमण्डलानि तानि चान्तमध्ये स्निग्धानि। अल्पवेदनादित्वं कफसम्बन्धाद वायोः। लघुसमुत्थानानि क्षिप्रजन्मानि अलावपुष्पनिभवात् सिध्माख्यानि ॥१३॥
गङ्गाधरः-काकणन्तिकेत्यादि। काकणन्तिकेति गुञ्जाफलम्। सर्वकुष्ठति कपालकुष्ठादिसर्चकुष्ठयुक्तानि। पापीयसामतिशयपापिना, स्वल्पपापिनान्तु न सव्वं कुष्ठयुक्तानि ॥१४॥
गङ्गाधरः-तान्यसाध्यानीत्यादि। तानीति काकणानि, इतराणीति कापालादीनि पट् कुष्ठानि । तत्रेत्यादि । साध्यं पुनः किञ्चित् कापालाद्यन्यतमं, कुतः साध्यतामतिवत्तेते इत्यत आह-कदाचिदित्यादि । ननु कुतः कथं देशानीन्यर्थः । सिध्मकुष्टं यथोक्तलक्षणं सिध्मपुष्पिकाव्यतिरिक्तमेव ध्रुवते ; एतसिध्मपुष्पिकाभिप्रायेण च सुश्रुते सिध्मकुष्ठं क्षुद्रकुष्टेषु पठितम् ; दद्र तु सुश्रुते महाकुष्ट पठितमपीह क्षुद्रकुष्ठ पठितमुत्तरोत्तरधावमुप्रवेशाभावात् तथान्यर्थपीडारहितत्वाच्च, सुश्रुते तु तदनुबन्धित्वप्रकर्षात महाकुष्ट पठितम् ॥ १३ ॥
चक्रपाणिः-सर्चकुष्टलिङ्गसमन्वितानीन्येतेनार्थे लब्धे पुनः पापीयसा सर्व्वकुष्टलिङ्गसम्भवेन इतिवचनाद् यदेव पापीयःकुष्टलिङ्गम्, तदेव काकणके भवति, नान्यत्रेति दर्शयति ; पापीयसा इत्यतिपीड़ाकृता; किंवा, पापीय सेत्यादिपुनर्वचनेन सर्वकुष्ठलिङ्गानां पापारब्धत्वेनासाध्यतामत्यर्थपीडाकर्तृताञ्च दर्शयति ॥ १४ ॥
चक्रपाणिः-- कदाचिदपचारादिति, कदाचिदित्यनेनाग्रे वक्ष्यमाणचिकित्स्यमानतापक्षान्तरं
For Private and Personal Use Only