________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रम अध्यायः
निदानस्थानम् ।
१३३१ परुषाण्यरुणवर्णानि वहिः अन्तः श्यावानि नीलपीतताम्रावभासान्याशुगतिसमुत्थानान्यल्पकण्डक्लेदक्रिमीणि दाहभेदनिस्तोदबहुलानि * शूकोपहतोपमवेदनानि उत्सन्नमध्यानि तनुपय्यन्तानि दीर्घपरिमण्डलानि कर्कशपिड़काचितानि ऋष्यजिह्वाकृतीनि यजिवानीति विद्यात् ॥ ११॥ __ शुक्लरक्तावभासानि रक्तपर्यन्तानि रक्तसिगराजीसन्तानानि उत्सेधवन्ति बहुबहलरक्तपूयलसीकानि कण्डूक्रिमिदाहपाक- वन्ति आशुगतिसमुत्थानभेदीनि पुण्डरीकपलाशसङ्काशानि पुण्डरीकाणीति विद्यात् ॥ १२॥
परुषारुणविशीर्णवहिस्तनूनि अन्तःस्निग्धानि शुक्लरक्तावरक्तमत्वेनात्र क्रिमीणां बहुकण्डूकरत्वम् । सक्तगतीत्यादि । सक्तं चिरं संसक्तं गत्यादिकं यत्र तानि तथा परिमण्डलाकारखात् मण्डलाखानि ॥१०॥
गङ्गाधरः-परुषेत्यादि। वहिः पय्येन्तदेशे परुषारुणवर्णानि। अन्तमध्यदेशे श्यावानि किन्तु नीलाद्यवभासानि। आशुगत्यादीनि वातपित्तसम्बन्धात्। ततश्वाल्पकण्डादीनि च । दाहबहुलानि निस्तोदभेदबहुलानि च । शूको धान्यशूकादि, उपहतवदवेदनाशालीनि। उत्सन्नमध्यानि मध्यदेशे उच्चानि परयन्तदेशे निम्नानि, तथा तनुपय्यन्तानि पय्यन्तदेशेऽधनानि। दीर्घपरिमण्डलानीति वितृणोति ऋष्यजिहाकृतीनीति । ऋष्यो हरिणभेदः ॥११॥
गङ्गाधरः--शुक्रक्त्यादि। रक्तसिराराजीसन्तानानीति रक्तवर्णसूक्ष्मसिरासमूहः सन्तानं व्याप्तियंपा तानि तथा। आशुगत्यादिकखं वातानुपित्तसम्बन्धात् । कफस्य द्रवांशेन पित्ततुलावेऽपि ताभ्यामवजयात् ॥१२॥
गङ्गाधरः--परुषारुणेत्यादि। वाह्य पर्यन्तदेशे परुषारुणवणेविशीर्णालक्षणे वहिरिति कुष्टपर्यन्ते, अन्तरिति विकृतमध्यमुच्यते। ऋष्यो हरिणविशेषः । पुण्डरीकपलाशशब्देन पनयुष्पदलमिह ॥ ८--१२ ॥
चक्रपाणिः- वशीर्णवहिम्तनूनि हत्यत्र 'तनु'शब्दः प्रदेशे वर्तते ; तेन विशीर्णपर्यन्त
* दाहभेदपाकनिस्तोदबहुलानीत्यन्यः पाठः ।
For Private and Personal Use Only