________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२८
चरक-संहिता। ( कुष्ठनिदानम् तेषां कुष्ठानामिमानि खलु पूवरूपाणि भवन्ति । तद् यथा-अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णता वैवर्णय कण्डर्निस्तोदः सुप्तता परिदाहः परिहों रोमहर्षश्च खरत्वम् उष्णायनं गौरवं श्वयथुर्विसागमनमभीक्ष्णं कायच्छिद्रषु चोपदेहः पक्कदग्धदष्टक्षतोपस्खलितेष्वतिमात्रं वेदना, स्वल्पानाम्
कुष्ठे तु कुष्ठसामान्यकारणैरेवैकादुरल्वणादितया त्रिदोषकोषो युगपद् भवतीति भेदः। सुश्रुते चोक्तम्। मिथ्याहाराचारस्येत्यारभ्य, छदि वा प्रतिहन्ति तस्य पित्तश्लेप्माणो प्रकुपितो परिगृह्यानिलः पद्धस्तिय्यग्गाः सिराः प्रतिपद्य समुद्धय वाहं मार्ग प्रतिसमन्ताद्विक्षिपति । यत्र यत्र च दोषो विक्षिप्तो निःसरति तत्र तत्र मण्डलानि प्रादुर्भवन्त्येवमुत्पन्नस्त्रचि दोषस्तत्र च वृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्यते धातून दूषयन्निति। ननु विसपंचिकिसिते वक्ष्यते--रक्तं लसीका बङमांसं दृष्यं दोषास्त्रयो मलाः। विसर्पाणां समुत्पत्तो विश याः सप्त धातवः। स च सप्तविधो दो विशे यः सप्तधातुकः। इति । तत् कथमन्यान् रोगान नाभिनिव्वत्तयति ? कुष्ठविसपेयोवा को भेद इति ? अत्रोच्यते केनचित्-विसपा वातादेवकैकद्वन्द्वसङ्घातदोषेभ्यो भवन्ति, न तथा कुष्ठानि। वक्ष्यते च । पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः इति । तन्न साधु ; कुष्टवद द्वाल्वणकैकद्वन्द्वसन्निपात विसर्पस्य सप्तधातुकखात्। अपरस्तु । क्षिप्रविसपेणशीलप्रबल. रक्तपित्तेजेन्यते विसर्पः, कुष्टन्तु चिरक्रियस्थिराप्रबलरक्तपित्तैरिति ॥६॥
गङ्गाधरः-पूर्वरूपाण्याह-तेषामित्यादि। अस्वेदनमतिस्वेदनं वेति व्याख्याय पुरुषभेदन तद द्वयं बोध्यम्। अतिश्लक्ष्णता गात्रस्य, परिहर्षोऽङ्गानां, रोमहर्षी रोमाञ्चः, खरत्वञ्चाङ्गानाम्, उष्णायनं शरीरत एवोष्णस्य आगमनम्, उष्णायमानता वा शरीरस्य । विसर्पागमनं शरीरेऽभीक्ष्णं विसर्पोद. गमः । कायच्छिद्रेषु रोमकूपेषु, इन्द्रियविवरेषु चोपदेहो मलैरुपलेपः। पकादिषु
त्वगादिस्थान प्राप्य ; किंवा स्थानमपि जनयितव्यकुष्ठशरीरदेशं प्राप्येत्यर्थः। अवतिष्टमाना इति वचनेन स्थिरा एव दोषाः कुष्ठकरा भवान्त, न हि सरणशीलास्त इति दर्शयति ॥ ६॥
चक्रपाणिः--अस्वेदनादि पूर्वरूपं प्रभावात् ; परिहर्षा झिनिझिनिका ॥ ७ ॥
For Private and Personal Use Only