________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
निदानस्थानम्।
१३२६ अपि च व्रणानां दुष्टिरसंरोहणञ्चेति कुष्ठपूर्वरूपाणि भवन्ति ॥७॥
तेभ्योऽनन्तरं कुण्ठान्यभिनिवर्तन्ते । तेषामिदं वेदनावर्णसंस्थाननामप्रभावविशेषविज्ञानं भवति । तद् यथा -रुवारुणपरूपाणि विषमविस्मृतानि खरपर्यन्तानि तनून्युवृत्तवहिस्तनूनि सुप्तसुप्तानि * हृषितलोमाचितानि निस्तोदबहुलानि अल्पकण्डूदाहपूयलसीकान्याशुगतिसमुत्थानानि आशुभेद
शरीरावयवेषु स्वल्पानामपि चेति अपिकारात् महताश्च व्रणानां दुष्टिरुपपन्नवास्ति दुष्टियोग्यखात् स्वल्पानां द्रष्टुमयोग्यानामपि खगादिशैथिल्याद दुष्टिरहेति इति मूचितम् । असंरोहणमिति न सम्यग्रोहः स्यात खगादिशैथिलपादेव, ततः शीघ्रोत्पादश्विरस्थितिव्रणानां गात्रे भवतीति ख्यापितम् । चकारादतिमात्रञ्च वेदना व्रणानामिति। समापयति--इति कुष्ठपूब्वेरूपाणीति ॥७॥
गङ्गाधरः-तेभ्योऽनन्तरमिति पूर्वरूपेभ्योऽनन्तरम् । कुष्ठानां रूपाणाहतेषामित्यादि । तेषामिति सप्तानां कुष्ठानाम् इदं वक्ष्यमाणमत ऊद्ध मेव । अथ विशेषविज्ञानं भवतीति नोक्त्वा वेदनादिविज्ञानं भवतीति यदुक्तं तेनैवं गमयति-वेदनादिविशेषा एव व्याधीनां लिङ्गान्युच्यन्ते, तद्विज्ञानमिदं वक्ष्यमाणरुक्षारुणेत्यादि। तद् यथेत्यादि। रुक्षाणि च तानि अरुणानि च तानि परुषाणि च तानि विषमविस्तानि असमतया सरणशीलानि चेति तानि तथा। खरपर्यन्तानीति अन्तदेशे खराणि । तनूनि अबहलानि। उत्तवहिस्तनूनि उच्चमध्यान्तनिम्नानि । सुप्तसुप्तानि अतिमात्रं स्पर्शाज्ञानानि । हपितलोमभिराचितानि सब्वेदा रोमहर्षवद् बहुलोमव्याप्तानि । आशु गतिः प्रसरणं समुत्थानमुत्पत्तिश्च येषां तानि तथा, वायोराशुगखात् । आशुचक्रपाणिः-उद्धृत्तवहिस्तनूनीति उच्छलीकृतवाह्यदेहानि ; सुप्तवत्सुप्तानि अत्यर्थस्पर्शाज्ञानि
में सुप्तवत् सुप्तानीति पाठान्तरम् ।
१६७
For Private and Personal Use Only