________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
१३२७
निदानस्थानम् । छर्दिश्च प्रतिघ्नतः, स्नेहांश्चातिचरतो युगपत् त्रयो दोषाः प्रकोपमापद्यन्ते, वगादयश्चत्वारः शैथिल्यमापद्यन्ते । तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठमानास्तानेव स्वगादीन् दूषयन्तः कुष्ठाभिनिर्वतयन्ति ॥६॥ आहारजातं भुक्तमन्न जाठराग्निना विदग्धमर्द्धपरिपकमनुल्लेख्य उल्लेखनं वमनं न कृवा पुनर्यो विदाहीन्यन्नानि भुक्तं तस्य । छद्दिश्वोपस्थितां यः प्रतिहन्ति तस्य। चकारात् मलादीनां वेगान् यः प्रतिहन्ति तस्य । यश्च दिवानिद्रां भजति तस्य, यश्च विप्रारुपद्धसिद्धादीन् धर्ष यति तस्य । युग. पदेकदा न तु एतेहेतुभिरेकः प्रकोपमापद्यापरी प्रकोपमापादयतः। प्रकोपमिति द्धिम्। खगादय इति प्रकोपमापद्यन्ते इत्यन्वयः। आदिपदेन सप्तधाखादिवारणाय मांसशोणितल सीकानां कुष्ठद्रव्यत्वेनोक्तानां त्रयाणां ग्रहणाथमाह--चखार इति। चकारात् शैथिल्यमापयन्ते। तत्तदुक्त निदानरेव दृद्धतात् ।
ननु तत्तदुक्तनिदान द्धा वातादयस्वगादयश्च रोगान्तरमप्यारन्धु कि नाहन्ति इत्यत आह–तेष्वित्यादि। तेषूक्तनिदान द्धा ये चखारस्वङ्मांसशोणितलसीकाधातवस्तेषु चतुषु न खेकशः शिथिलेषु तैरेव निदानः युगपत्प्रकुपिता दोषा वातादयस्त्रयस्तान बगादीन् चतुरो वृद्धवेन शिथिलान धातूनधिगम्य तेषां मध्ये गला तेष्वेव खगादिषु सन्तिष्ठमानाः सन्तस्तानेव खगादींश्चतुरो धातून न खन्यान् धातून दूषयन्तः सन्तः कुष्ठान्यभिनिर्वत्यन्ति न खन्यान् रोगान। न हातादृशसम्प्राप्तिका इतरे केचिद्रोगाः ईदृशाश्व कुपिता दोषा ईदृशाश्च कुपितशिथिलास्वगादयो धातवो यदि भवन्ति न तदान्यान् धातूनधिगच्छन्ति नाप्यन्यत्रावतिष्ठन्ते नान्यान् वा धातून दूषयन्ति तस्मात् नान्यान् रोगानभिनिव्वत्तयन्ति। एवं सर्वत्र व्याख्येयम् । स्वभावो हि दोषाणां कुष्ठविसर्पादियुक्तस्वस्वनिदानाद् भवति, किञ्च कुष्ठेषु गुरुविप्रादिधर्षणवर्णस्तेयादिकारणानि सन्ति न तु विस। विस हि सामान्यनिदानम् उक्त्वा प्रत्येकश्च निदानमुक्तं, तेन विसर्पनिदानकुपितानां त्रयाणां दोषाणां पुना रुक्षादिभिर्वातादीनां प्रत्येकं विशेष कारणैरुल्वणतया प्रकोपो भवति. तन्त्रता आत्रेयभद्रकाप्यीये दर्शितो रोहितभेदः स्थानमधिगम्येति कुष्ठजननानुगुणं शिथिल
For Private and Personal Use Only