________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२६
चरक-संहिता। । कुष्ठनिदानम् सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासञ्च, मधुफाणितमत्स्यमूलककाकमाचीः सततमतिमात्रमजीर्ण समश्नतश्चिलिचिमञ्च पयसा, हायनकयवकचीनकोदालकोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भपरुषस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य * च व्यवायव्यायामसन्तापानत्युपसेवमानस्य, भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतो, विदग्धश्चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः विपर्ययम् । मलानुपूर्व्या वाताद्यानुपूा। शीतस्य वोष्णस्य वा व्यत्यासं क्रमपरित्यागम् । क्रमस्तु शीत वाते कफे चोष्ण उपयोगः, उष्णे च पित्ते शीत उपयोगस्तस्य विपर्ययः शीते वाते कफे च शीत उपयोगः, उष्णे पित्ते उष्ण उपयोगः। तथा। एवं सन्तर्पणापतर्पणाभ्यवहार्याणां व्यत्यासं क्रमत्यागमुपसेवमानस्येत्यनेनान्वयः। यदा सन्तर्पणं कत्तव्यं यदा चापतपेणं काय, तत् तत् तदा तदा न कृत्वा यदा सन्तपेणं विहितं तदा लपतपणं क्रियते, यदापतर्पणं विहितं तदा सन्तपेणं क्रियते, इति सन्तपणापतपणव्यत्यासः। अत्र सन्तर्पणशब्देन टहणीयस्नेहनीयानां व्याणां ग्रहणम् । अपतर्पणशब्देन पुनलेखनीयरुक्षणीयस्वेदनीयस्तम्भनीयानां द्रव्याणां ग्रहणम् अभ्यवहार्यखात् तथानशनादिदविधलङ्घनानाम् । तेन पञ्चकर्मापचारिखमुक्तं भवतीति। अभ्यवहार्यस्य व्यत्यासो विमानस्थाने वक्ष्यमाणप्रकृतिकरणाद्याहारविधिविशेषायतनानां वजनेनाहारस्योपयोगः । मधुफाणितादीनामतिशयेन सततमशनमजीणेऽप्यशनं तथा पयसा चिलिचिममत्स्यानां विरुद्धाशनम् । हायनकादिबहुलानभोजनमपि । एतैरित्युक्तः क्षीरादुपहितहायनकादिप्रायाणीत्यन्तैरतिमात्रं सुहितस्यातिशयतृप्तस्य व्यवायादित्रयात्युपसेवमानस्य तथाविधमुहितः सन् व्यवायादीन् यः सेवतेऽतिमात्रं तस्य। भयेत्यादि। यो भयादोकानेकोपहतचेताः सन् सहसा तत्क्षण शीतोदकमवतरति अवगाहते तस्य। विदग्धमित्यादि । एवं सन्तर्पणापतर्पणाभ्यवहार व्यत्यासमपि अनानुपूर्योपसेव्यमानस्येति ज्ञेयम् । चिलिचिमा
* सुहितभक्षितस्येति चक्रसम्मतः पाठः।
For Private and Personal Use Only