________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ।
निदानस्थानम् ।
१३२५ _इह वातादिषु त्रिषु प्रकुपितेषु वगादींश्चतुरः प्रदूषयत्सु वातेऽधिकतरे कापालकुष्ठमभिनिवर्त्तते, पित्ते त्वौडुम्बरं, श्लेष्मणि मण्डलं कुष्ठं, वातपित्तयोः ऋष्यजिह्व, पित्तश्लेष्मणोः पुण्डरीकं, श्लेष्ममारुतयोः सिध्म, सर्वदोषाभिनिर्वृत्तौ काकणमभिनिवर्तते। एवमेष सप्तविधः कुष्ठविशेषो भवति। स एव खलु भूयस्तरतमतः प्रकृतौ विकल्प्यमानायां भूयसी विकारविकल्पसंख्यामापद्यते ॥ ५ ॥
तत्रेदं सर्वकुष्ठनिदानं पुनः समासेनोपदेच्यामः । शीतोष्णव्यत्यासं मलानुपूव्योपसेवमानस्य तथा
गङ्गाधरः-- तन्तु विशेष दर्शयति-- इहेत्यादि। त्रिपु मध्ये वातेऽधिकतरे इत्यधिकतम इत्यर्थः, द्वयोरुत्कर्षे तरस्य च्छन्दसि नियमाभावात्। एवं पित्ते खित्यादिषु अधिकतरे इति पदमन्वेतव्यम् । सव्वेदोषाभिनिळताविति सर्वदोषाणां समाभिवृद्धौ । स एवेति स एव सप्तविधः कुष्ठविशेष एव भूयस्तरतमत इति भूयिष्ठदोषस्यैकस्यानेकस्य च तरतमतस्तारतम्यात् उल्वणदोषस्य रोक्ष्यशैत्यायं कवियादिधम्मतो वृद्धा , प्रकृती खारम्भकदोपे विकल्प्यमानायां विशेषण कल्प्यमान भूयसीमष्टादशादिरूपां विकारविकल्पसंख्यां दकिटिमादिविकाररूपेण विकल्पतः सयाम् ॥ ५ ॥
गङ्गाधरः-तत्रेदमित्यादि। इदमत ऊद्धं वक्ष्यमाणशीतोष्णव्यत्यासादिकम् । समासेन नातिविस्तरेण। शीतोष्णव्यत्यासमिति शीतोष्णकुष्ठन्त्वलसकं ज्ञयं प्रायो वातकफात्मकम् इत्यादि चिकित्सिते वक्ष्यमाणग्रन्थानुरोधात् क्षुद्रकुष्ठान्तर्भावो व्याख्येयः ॥ ३॥४॥ ___ चक्रपाणिः- कुष्ठानां कापालादिसंज्ञाः कपालादिसादृश्यप्रयुक्तास्तथा शास्त्रव्यवहारसिद्धाश्च बोद्रव्याः ; न हि सिध्मसंज्ञायामन्वयोऽस्ति ; तेन शास्त्रव्यवहारसिद्धैव सिध्मसंज्ञा ; प्रकृती विकल्प्यमानायामिति कुष्टजनककारणे भिद्यमाने ; विकल्पसंख्या भेदरूपा संख्या ; इह क्षुद्रकुष्ठाभिधानमुक्तन्यायेन महाकुष्टान्तर्गतत्वादेवेति बोद्रव्यम् ॥ ५ ॥
चक्रपाणिः-शीतोष्णव्यत्यासं शीतोष्णपरिवर्तनम् ; अनानुप्ठयेति यथोक्तमत्यागेन ; क्रमत्यागश्ोष्णं निषेव्य सहसा शीतसेवा, तद्विपर्ययश्च, तथा अनुचिते काले शीतोष्णसेवा ।
For Private and Personal Use Only