SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२४ चरक-संहिता। कुष्ठनिदानम् दोषा हि विकल्पनैर्विकल्पामाना विकल्पयन्ति विकारानन्यत्र असाध्यभावात् । तेषां विकल्पविकारसंख्यानेऽतिप्रसङ्गमभिसमीक्ष्य सप्तविधमेव कुष्ठविशेषमुपदेक्ष्यामः ॥ ४॥ सप्तविधखादिमात्रम् ? इत्यत आह-दोषा इत्यादि। विकल्पनरंशांशकल्पनैः विकल्प्यमाना दोषा विकारान् विकल्पयन्ति रोगाणां विशेषेण प्रकारान् कुर्वन्ति, तेन कुष्ठविसर्पयोः समसप्तधातुकलेऽपि निदानवैशेष्यात् प्रकृतिसामान्याभावान्न विशेषरूपता। एवमसाध्यवं पुनरचिन्त्यं न विकल्पयन्ति यतस्त्रिदोषजगुल्मोऽसाध्यो न चासाध्यं सर्व कुष्ठं त्रिदोषजम् अपीति नास्त्यसाध्यतां प्रति चिन्ता। ननु सप्तविधवादिकं कैर्विकल्पनैः शेयमित्यतः सूत्ररूपवादस्य निदानस्थानस्य सप्तविधे सर्व विधानामन्तर्भावम् अभिप्र त्य सप्तविधखोपदेशार्थमाह- तेषामित्यादि। तेषां वातपित्तकफानां विकल्पेन विकारप्रकारपरिसंख्याने परिसंख्याकरणेऽतिप्रसङ्गं तन्त्रस्यातिबाहुल्यप्रसङ्गं कुष्ठानां समानप्रकृतीनामपि दोषांशांशविकल्पस्थानभेदेन वेदनादिभिर्विशेष सप्तविधमेवोपदेक्ष्याम इत्यन्वयः ॥४॥ संख्येयस्तु वेदनाचवान्तरभेदेन ; कुतोऽपरिसंख्याता एवंविकल्पा भवन्तीत्याह-दोषा होत्यादि। विकल्पनैरिति विविधभेदविकल्पनैरंशांशविकल्पादिभिर्विकल्प्यमाना भिद्यमाना विकल्पयन्ति भेदयन्ति, न्याधिकारणदोषभेदात् कार्यस्यापि व्याधे दो बहुविधो भवतीति भावः । सोऽयं दोषभेदकृतो भेदोऽसाध्ये व्याधी नेह क्रियते इत्याह अन्यत्रेत्यादि। असाध्यमिह प्रत्याख्येयमभिप्रेतम् ; याप्यस्य भेदोऽसाध्यस्य क्रियत एव यापनार्थम् ; एवं मन्यते--प्रत्याख्येये व्याधी सन्नपि दोषकृतो भेदोऽचिकित्स्यत्वेन चिकित्साविशेषाप्रवर्तकत्वान्नेह क्रियते, साध्ये तु चिकित्साभेदार्य क्रियत इति युक्तम् । सम्प्रतीतरप्रकारत्यागं सहेतुकं दर्शयन् सप्तविधाभिधानं प्रतिजानीते-तेषामित्यादि। विकल्पैः सर्विकारकथनं विकल्पविकारसंख्यानम् ; अतिप्रसङ्गमिति अत्यभिधानप्रसङ्गम्। ननु यदि सप्तविधकुष्ठे अपरैकादशचिकित्सावक्ष्यमाणकुष्ठान्तआँवो भवति, तदा सप्तविधत्वं तथासादविधत्वम्चेति विधाद्वयं भवति, यथा ज्वराणामेकविधत्वद्विविधत्वादि, तत्र सर्वास्वेव विधासु सर्वान्तर्भावोऽस्ति । न चेह सप्तमहाकुष्ठे क्षुद्रकुष्ठप्रवेशोऽस्ति, किम्वैवं भुद्राप्रवेशे कमिहाचार्यो निदाने सप्तकुष्ठाभिधानेन कृती स्यात् ; इह तु सप्तविधकुष्ठाभिधानेन एकदोषजद्विदोषजत्रिदोषजकुष्टाभिधानं कृतम्-“वातेऽधिकतरे कापालकुष्ठम्' इत्यादिना ; न चैतत्प्रकारत्रयात् प्रकारान्तरं क्षुद्रकुष्ठानामप्यस्ति ; तेन भुद्रकुष्ठेषु यत् कुष्ठम्, तोषजं वक्तव्यम् ; तस्योक्तत होषलक्षणयुक्तावेनावरोधो व्याख्येयः, परं क्षुद्रकुष्ठे महाकुष्ठोकदोषलक्षणेनाल्पत्वं भवतीति ज्ञेयम् ; भत्र "चौख्यमेककुष्ठन्तु किटिम सविपादिकम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy