________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातः कुष्ठनिदानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रयः ॥ १॥ सप्त द्रव्याणि कुष्ठानां प्रकृतिविकृतिमापन्नानि भवन्ति। तद् यथा-त्रयो दोषा वातपित्तश्लेष्माणः प्रकोपणविकृताः, दृष्याश्च शरीरधातवस्त्वङमांसशोणितलसीकाश्चतुर्दा दोषोप
गङ्गाधरः-अथाव्यभिचरितैकैकदोषत्रिदोपव्याधीनुक्त्वा त्रैदोषिकलप्रसा. संगत्या प्रमहनिदानानन्तरं कुष्ठनिदानमाह-अथात इत्यादि ॥१॥
गङ्गाधरः-सप्त द्रव्याणीति समवायिकारणानि, कुष्टानां सर्वेषामेव सप्तव प्रकृतिविकृतिमापन्नानि प्रकृत्या स्वभावेन सप्तव न तु व्यस्तानि विकृतिमापन्नानि । तद् यथेति । त्रय इत्यादि । प्रकोपणविकृताः कुष्ठकरतेन वक्ष्यमाणस्वस्खनिदानात् वृद्धिमापन्ना न तु क्षयमापन्नाः। दुष्टाः खलु बङमांसादयः दोषोपघातेन दोषैरुपघातेन विकृताः। एवं सर्वेषु दृष्याणां विकृतिः स्वकारणेन वृद्धानां क्षीणानां वा यथास्वनिदानकुपितदोषोपघातेन बोध्या, अन्यथा प्रति___ चक्रपाणिः-प्रमेहमनु प्रागुत्पत्तो कुष्टनिदानमुच्यते ; वचनं हि- हविःप्राशान्महकुष्ठयोः" इति। सप्त व्याणीति-त्रयो दोषाश्चत्वारि दूष्यागि ; प्रकृतिरिति कारणमित्यर्थः ; सप्तद्रव्याणां विशेषणं-'प्रकृतिमापन्नानि' इति ; किंवा प्रकृतिविकृतिमापनानीति पाठः ; तदा प्रकृत्या कुष्ठकारणेन विकृतिमापन्नानीत्यर्थः । एतेन च यदा कुष्टजनकहेतुन्यतिरेकेण वातादीनां विकृतिर्भवति, न नदा कुष्टोत्पादो भवति, किन्तु विसर्पोत्पाद इति दर्शयति : विसर्प हि "रक्त लसीका त्वयांसं दृष्यं दोषास्त्रयो मलाः। सर्व एव प्रकुप्यन्ति वीसणां समुद्भवे।" इति वचनादेत एव सप्त विकृताः कारगमित्युक्तम् ; वद्यपि कुष्ठविसर्पयोर्दोषदृष्यकृतं साम्यमस्ति, तथापि विसर्पणशीलेन रक्तप्रधानदोषेण विसर्पजन्म, अन्यथा तु कुष्टजन्मेति च्याधिभेदोत्पत्तिः ; भत एवं "विविध सर्पति मेन विसर्पस्तेन संशितः" ; तथा विशिश्शोणितवशादेव विसर्प प्रबला वेदना भवति, तथा रक्तचिकित्सायाः प्राधान्येनोपदेशाच्च रक्तप्राधान्यं विसर्प ज्ञेयम् ; वचनं हि-"एकतस्तानि सर्वाणि स्क्तमोक्षणमेकतः इति ; अन्ये तु ब्रु वते-विसर्प नावश्यं दोषदृश्यसप्तकटिः, किन्तु सप्तानां तत्र दुर्योग्यतया दृश्यते ; कुष्ठे तु सर्वत्र प्रतिनियमेन दुधिरिति,
• प्रकृतिमापनानि इति पाठान्तरम् ।
For Private and Personal Use Only