________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गहता।
१३२२
चरक-संहिता। [ कुष्ठनिदानम् घातविकृताः। इत्येतत् * सप्तधातुकमेवं गतमाजननं कुष्ठानाम् । अतः प्रभवाद+भिनिवर्तमानानि केवलं शरीरमुपतपन्ति ॥२॥ ___ न च किञ्चिदस्ति कुष्ठमेकदोषप्रकोपनिमित्तम्, अस्ति तु रोग निदानवचनवैयापत्तिश्च । तेन दृष्याश्चेति प्रकोपणविकृता दोषोपघातविकृताश्च । इत्येतत् वातपित्तकफबङ्मांसशोणितलसीका इति सप्तधातुककुष्ठरोगे प्रकोपणविकृता दोषास्तत्स्वभावदोषोपघातविकृता न च दृष्या इति सप्तकं कुष्ठानामाजननं प्रकृतिभूतकारणम् । तन्मयानि हि कुष्ठानि न च समुदायखेन तेभ्यो विशिष्टान्यपि न तदतिरिक्तानि। अतः सप्तधातुकात् प्रभवात् प्रभवन. कारणात् । अभिनिवत्तेमानानि कुष्ठानि केवलमखिलं शरीरम् ॥२॥
गङ्गाधरः-ननु किंवातायन्यतमात् प्रभवात् उत मिलितात् सप्तकादित्याशङ्कां निरसितुमाह-न च किञ्चिदिति । किमपि कुष्ठम् एकदोषप्रकोपो निमित्तं यस्य यथा कुष्ठारम्भका दोषाः कुप्यन्ति, तथा च दृष्याणि ; तदाह-तद् यथेत्यादि। प्रकोपणविकृता इति कुष्ठनिदानप्रकोपणविकृताः, अन्यथा प्रकोपणवचनमनथकं स्यात्, विना प्रकोपणं व्याधिजनकविकृत्यभावाद। दोषोपघात इत्यनेन दोषोपघातादेव धातूनां विकृतिर्भवतीति दर्शयति, न दोषमन्तरा धातवो दृष्यन्तीत्यर्थः। किंवा कुष्ठकारणानां क्षयवृद्धिमात्ररूपधातूनां विकृति निराकृत्य दोषाभिसम्बन्धरूपां दुष्टिं ग्राहयन्ति ; सप्तधातुकं सप्तधातुमेलकः ; एवं. गतमित्युक्तक्रमेण विकृतिं गतम् ; आजननं कारणम् ; अतः प्रभावाणीत्येतत्कारणभूतानि ; अभिनिर्वतमानानोति अतिप्रसपमाणानि ; केवलं कृत्स्नं दूष्यचतुझ्यातिरिक्तमपीत्यर्थः । एतेन प्रथमोत्पत्ती कुष्ठे तु चतुर्दातुरिनियमः, उत्पन्नस्य अस्थिशिरादिदूषणमपि भवतीति दर्शयति ; तत्र सुश्रुते कुष्ठस्य प्रथमं त्वगाश्रयस्य पश्चात्तरोत्तरधातूनामनुगमनमुक्तम्-"एवं कुष्ठं समुत्पन्न त्वचि कालप्रकर्षतः। क्रमेण धातून् व्याप्नोति' इत्यादिना ग्रन्थेन ; तदिहापि अविरुद्धमेव । येन सर्चकुष्ठेषु प्रथमं त्वच्यवश्य वैकृतं भवति विशेषेण, पश्चाद् वैशेषिकी दुधिः कालप्रकर्षाद्रक्तादिषु भवति ; चतुर्दातुरिश्चेह कुष्ठोत्पादे सामान्यदुयभिप्रायेणोक्ता, वैशेषिके तु दृष्टिस्तेषां क्रमेणैव भवति ; वैशेषिकदुष्टिश्चेह "शरीरमुपतपन्ति" इति वचनाद व्याख्येया; अत एव सुश्रुते वैशेषिकदुष्टयभिप्रायेणैव-"कण्डूर्वि पूयकश्चैव कुष्ठे शोणितसंश्रये" इत्यादिना विशिष्टलक्षणमुक्तम् ; इह तु या सामान्येन चतुर्दातुष्टिरुक्ता, न सा तलक्षणयुक्ता, किन्तु कुष्टोत्पादमात्रज्ञेया ; तेन न विरोधः ॥ १॥२॥
चक्रपाणिः-सम्प्रति विदोपजन्यत्वेऽपि सर्वकुष्ठानां यथा वातिकादिप्यपदेशो भवति, तदाह-न च किञ्चिदित्यादि। समानप्रकृतीनामिति भवान्तरविकल्परहिततुल्यवातादिसप्त
* इतः परं 'सप्तधातूनाम्' इत्यधिकः पाठो दृश्यते। + प्रभवादित्यत्र प्रभावाणीति पाठः ।
For Private and Personal Use Only